SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ५१९ सारूप्यमनुरूपस्य सारूप्यात्क्षोभवधनम् ॥ ११ ॥ यथा वेण्याम्-दुर्योधनभ्रान्त्या भीमं प्रति 'युधिष्ठिरः-दुरात्मन् ! दुर्योधनहतक !-' इत्यादि । संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते । यथा मम चन्द्रकलायाम् 'राजा-प्रिये ! ___ अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा। ( आत्मानं निर्दिश्य-) अयमीहितकुसुमानां सम्पादयिता तवास्ति दासजनः॥' सारूप्यं लक्षयति -- सारूप्यमिति । अनुरूपस्य = सदृशस्य, “अभिभूतस्ये"ति पाठान्तरं तस्य पराभवं प्राप्तस्येत्यर्थः । “अनुभूतस्ये"ति पाठान्तरे तस्य कृतानुभवस्येत्यर्थः। सारूप्यातु-समानरूपत्वात; सादृश्यादिति भावः । क्षोभवर्धनं चाञ्चल्यबुद्धिः । "क्षोम. वर्तन"मिति पाठान्तरे, तस्य चाञ्चल्याचरणमित्यर्थः, "सारूप्यं" नाम लक्षणम्।।१९१।। ___सारूप्य मुदाहरति-यथा वेण्यामिति । अत्र दुर्योधनस्य सारूप्या भ्रमेण युधिष्ठिरस्य भीमदर्शने क्षोभवर्द्धनाद "सारूप्यं" नाम लक्षणम् । संक्षेपं लक्षयति-संक्षेप इति । संक्षेपात् = संक्षेपं कृत्वा, "ल्यब्लोपे कमव्य. धिकरणे च" इति ल्यब्लोपे कर्मणि पञ्चमी । आत्मा = स्वः, अन्याय = अपरजन. विषये, प्रयुज्यते = निर्दिश्यते, स. "संक्षेपः”। संक्षेपमुदाहरति-अजानीति । राज्ञश्चन्द्रकला प्रत्युक्तिरियम् । हे प्रिये = हे दयिते !' शिरीषकुसुमपरिपेलवानि = शिरीषकुसुमानि (शिरीषपुष्पाणि ) इव परिपेलवानि (अतिसुकुमाराणि ), अङ्गानि-शरीराऽवयवान्, हस्तपादादीनिति भावः । मुधा-वथा, किं-किमर्थ, खेदयति = खेदयुक्तानि करोषि, पुष्गंऽवचयेन कि पीडयसीति भावः । अयं - त्वन्निकटवर्ती, दासजनः = सेवकः, तव-भवत्याः, ईहितकुसुमानाम् = अभीष्ट पुष्पाणां, सम्पादयिता = सम्पादकः, चयनकारक इति भावः । अस्ति = विद्यते । आर्या वृत्तम् । अत्र संक्षेपादनपार्थमात्मनः प्रयोगात् "संक्षेपः"। सारूप्य-अनुरूपके सादृश्यसे चाञ्चल्यकी वृद्धिको “सारूप्य" कहते हैं ।।१९१॥ जैसे वेणी ( संहार ) में दुर्योधनकी भ्रान्तिसे भीमके प्रति युधिष्ठिर-दुरात्मन् ! दुर्योधनहतक ! इत्यादि। संक्षेप-संक्षेप करके अपने को दूसरेके लिए निर्देश करनेको "सक्षेप" कहते हैं। जैसे ग्रन्थकारको चन्द्रकला (नाटिका) में राजा-"प्रिये ! शिरीषके फूलोंके समान कोमल अङ्गोंको व्यर्थ क्यों खिन्न बनाती हो ? ( अपनेको दिखलाकर ) यह दासजन तुम्हारे अभीष्ट फूलोंका सम्पादन करता है !
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy