SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे 'दुर्योधनः सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । स्वबलेन निहन्ति संयुगे नचिरात्पाण्डुसुतः सुयोधनम् ॥' विचारस्थान्यथाभावः संदेहात्त विपर्ययः ॥ १८७॥ यथा 'मत्वा लोकमदातारं संतोषे यैः कृता मतिः । त्वयि राजनि ते राजन्न तथा व्यवसायिनः॥' दाक्षिण्यं चेष्टया वाचा परचित्तानुवर्तनम् । जंगमुदाहरति-सहभृत्यगणमिति। पाण्डुसुतः = युधिष्ठिरः, स्वबले - आत्मपराक्रमेण, सहभृत्यगणं = भृत्यसमूहसहितं, सबान्धवं = बन्धुजनसहितं, सहमित्रंमुहज्जनसहितं, सहानुजं = दुःशासनाऽवरजसहितं, तादृशं सुयोधनं = दुर्योधनं, माम् । मचिरात = शीघ्रमेव, संयुगे = युद्ध, निहन्ति = व्यापादयति । अत्र दुर्योधनस्य "पाण्डः सुतं सुयोधन" इति वक्तव्येऽर्थे दप्तत्वात् “पाण्डुसुतः सुयोधनम्" इति कथनात् भ्रंशो वाम लक्षणम् । . विपर्ययं लक्षयति-विचारस्येति । सन्देहात = संशयात्, विचारस्य = तत्त्व. निश्चयस्य, अन्यथाभावः = परीत्यं, तु "विपर्ययः ॥ १८७ ।। : विपर्ययमुदाहरति-मत्त्वेति । कश्चित्कवी राजानं स्तौति । यः = जनः, लोकं = जनम्, अदातारं = दातृत्वगुणरहितं, मत्त्वा = अवबुद्धय, सन्तोषे - परितोष, दातृस्तुतिरूपकर्मानाचरणेनेति शेषः, मति:-बुद्धिः, कृताः विहिता, हे राजन् ! हे नृप !, स्वयि = भवति, राजनि = नपे सति, ते = जनाः, तथा तेन प्रकारेण, प्रार्थनां विना, न दातृत्वाऽभावरूपात्सन्देहाज्जातस्य सन्तोषधारणरूपस्य विचारस्याऽन्यथाभावाद्विपर्ययः । ... दाक्षिण्यं लक्षयति-दाक्षिण्यमिति । चेष्टया - देहव्यापारेण, वाचा-वचनेन वा, परचित्ताऽनुवर्तनं % परचित्तस्य (अन्यमानसस्य ) अनुवर्तनम् (अनुसरणम् ) "दाक्षिण्यं" लक्षणम् । . . • युधिष्ठिर भृत्यगण, बान्धवजन, मित्रजन, पुत्रों और भाइयोंके साथ दुर्योधनको शीघ्र ही युद्ध में मार डालेंगे। यहांपर "पाण्डुसुतं सुयोधनः" ऐसा कहना चाहिए वक्ताके दर्पयुक्त होनेसे उलटा हुआ है। विपर्यय-सन्देहके कारण विचारकी विपरीतताको "विपर्यय" कहते हैं :१८७। जसे-लोकको दान नहीं करने वाला समझकर जिन्होंने सन्तोषमें बुद्धि की थी। हे राजन् ! आप ऐसे राजाके होनेपर वे वैसा व्यवसाय ( सन्तोष ) नहीं करते हैं। दाक्षिण्य-चेष्टा और वचनसे दूसरेके मनका अनुसरण करनेको 'दाक्षिण्य"
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy