________________
षष्ठः परिच्छेदः
यः सामान्यगुणाद्रेकः स गुणातिशयो मतः ।
५११
यथा तव
'राजा - ( चन्द्रकलाया मुखं निर्दिश्य ) असावन्तञ्चश्वद्विकचनवनीलाब्ज युगल
स्तलस्फूर्जर कम्बुर्विलसद लिसंघात उपरि । विना दोषास सतत परिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलितकलङ्कः सुमुखि ! ते ॥' तमोहरणरूपं गुणं प्रति स्त्रीजीवनहरणरूपविपरीतकार्याद् गुणाऽतिपातो नाम नाटयालङ्कारः । गाथा वृत्तम् ।
गुणाऽतिशय लक्षयति-य इति । यः सामान्यगुणोद्रेकः = सामान्यगुणात् ( उपमानोपमेयनिष्ठसाधारणधर्मात् ) उद्रेकः ( आधिक्यम् ) उपमेयस्येति शेषः । स "गुणाऽतिषायः', मतः = अभिमतः ।
गुणाऽतिशयमुदाहरति-यथेति । तत्रैव = चन्द्रकलायामेव । असाविति । हे सुमुखि = हे रुचिरवदने !, अन्तः मध्ये, चञ्चद्विकचनवनीलाऽब्जयुगलः = चश्वत् ( चलत ) विकचं ( प्रफुल्लम् ) नवं ( नूतनम् ) नीलम् ( श्यामम् ) अब्जयुगलं ( कमलयुग्मम्, नयनद्वितयरूपमिति भावः ), यस्य सः । तथा तलस्फूर्जत्कम्बुः - तले ( अधोदेशे ) स्फूर्जन ( दीप्यमानः ) कम्बु: ( शङ्खः, ग्रीवारूप इति भावः ) यस्य सः उपरि (ऊर्ध्वभागे ) विलसदलितङ्घातः - विलसन् ( विचरन ) अलिसङ्घातः (भ्रमरसमूहः केशसमूहस्वरूप इति भावः ) यस्य सः । एवं च सततपरिपूर्णाऽखिलकल: सततं ( निरन्तरं यथा तथा ) परिपूर्णा: ( अन्यूना: ) अखिला : ( समस्ताः ) कला: ( भागा: ) यस्य सः । तथा विगलितकलङ्कः = कलङ्करहितः, असौ = अयं, चन्द्रः ( इन्दु:, मुखरूप इति भावः ) दोषासङ्ग विना = रात्रिसम्बन्धं विनाऽपि अथवा दूषणसम्पर्क विनाऽपि । ते तव, समीप इति शेषः । कुतः कस्मात् स्थानात्, प्राप्तः = उपस्थितः । अत्राऽऽह्लादकत्वादिसामान्यधर्मेभ्यो मुखस्य विगलितकलङ्कत्वादिधर्माधिक्या गुणातिशयो नाम नाटयालङ्कारः, शिखरिणी वृत्तम् ।
को शिरसे धारण कर लेते हैं । तुम शिवजी के शिरमें रहते हो, हाय ! तो भी स्त्रीके जीवनको हर लेते हो ।
१
गुणाऽतिशय साधारण धर्मसे उपमेयके आधिक्यको “गुणाऽतिशय" कहते हैं। जैसे वहीं ( चन्द्रकला ) पर राजा - ( चन्द्रकलाके मुखका निर्देश कर ) हे सुमुखि ! जिसके मध्य में खिले हुए दो नील कमल ( नेत्र ) हैं । नीचे शङ्ख ( ग्रीवा ) शोभित है । ऊपर भ्रमरसमूह ( केशकलाप ) शोभित हो रहा है। दोषासङ्ग ( दोषारात्रि के वा दोष के आसङ्ग सम्पर्क के ) बिना निरन्तर परिपूर्ण सम्पूर्ण कलाओंसे युक्त, कलङ्क से रहित ऐसे चन्द्र ( मुख ) को तुमने कैसे पा लिया है ?