________________
.
साहित्यदर्पणे
अत्रोक्ता मागधी भाषा राजान्तःपुरचारिणाम् । चेटानां राजपुत्राणां श्रेष्ठानां चार्धमागधी ॥१६०॥ प्राच्या विदूषकादीनां, धूर्तानां स्यादवन्तिजा । योधनागरिकादीनां दाक्षिणात्या हि दीव्यताम् ॥१६१॥ शबराणां शकादीनां शायरी संप्रयोजयेत् । पालीकभाषोदीच्यानां द्राविडी द्रविडादिषु ॥१६२॥
आभीरेषु तथाभीरी चाण्डाली पुकसादिषु । अत्र = नाटयशास्त्रे, राजाऽन्तःपुरचारिणां = राज्ञः ( भूपस्य ) यत अन्तःपुरं (शुद्धान्तः) तच्चारिणां (वामनषण्डादीनाम्); मागधी-मगधदेशोद्भवा भाषा, (चतसृणां मुख्यप्राकृतभाषाणामन्यतमा ), उक्ता = अभिहिता । चेटानां = भृत्यानां, राजपुत्राणा, श्रेष्ठानां-वणिजां; च अर्धमागधी भाषा, प्रयोक्तब्या ॥ १६०॥
विदूषकादीना,प्राच्या भाषा । गोडीयेति भावः । धूर्तानाम् अक्षक्रीडाशीलानाम्, अवन्तिजा = आवन्सी भाषा। दोन्यता = क्रीडापराणां, योधनागरिकाणां = योधानां ( भटानाम् ) नागरिकाणाम् ( पौराणाम् ) च, दाक्षिणात्या दक्षिणदेशोद्भवा, वैदर्भी भाषेति भावः । हि-निश्चयेन ॥ १६१॥ ... गबराणां-म्लेच्छविशेषाणां, शकादीनां पर्वतीयम्लेच्छविशेषाणां च, शाबरी= शबरमाणं, संप्रयोजयेत् = विदध्यात् । उदीच्यानाम् = उत्तरदिग्वासिना, नागप्रभृति जातीनामिति भावः, बालीकभाषा, द्रविडादिषु = द्रविडादिदेशनिवासिषु, द्राविडी = द्राविडी भाषा ॥ १६२॥ .. आभीरेषु = जातिविशेषेषु, महाशूद्रेष्विति भावः । आभीरी = आभीरभाषा ।
राजाके अन्तःपुर ( रनिवासा ) में चलनेवालोंकी मागधी भाषा कही गई है। दासोंका राजपुत्रोंका और सेठ लोगोंकी अर्धमागधी हो ।। १६० ॥
विदूषक आदिकी प्राच्या ( गोडी ) भाषा हो। जुआ खेलनेवालोंकी आवन्ती भाषा हो। योद्धा, नागरिक और क्रीडामें आसक्त पुरुषोंकी दक्षिणात्या ( वंदर्भी) भाषा हो । १६१ ॥
शबर और शक मादियोंकी शाबरी भाषाका प्रयोग होना चाहिए। उदीच्य = उत्तर दिशामें रहनेवालोंकी बाह्रीक भाषा और द्रविड आदियोंमें. द्रविड भाषा हो ॥१६॥
.. आभीरोंमें भारी भाषा और पुक्कस ( चाण्डालविशेष ) आदिमें चाण्डाली