________________
षष्ठः परिच्छेदः
४९७
शका(शाक्या)दयश्च संभाष्या मद्रदत्तादिनामभिः । यस्य यत्कर्म शिल्पं वा विद्या वा जातिरेव वा ॥१५७।।
तेनैव नाम्ना वाच्योऽसौ ज्ञेयाश्चान्ये यथोचितम् । अथ भाषाविभाग:
पुरुषाणामनीचानां संस्कृतं स्यात्कृतात्मनाम् ॥१५॥ सौरसेनी प्रयोक्तव्या तादृशीनां च योषिताम् ।
आसामेव .तु गाथासु महाराष्ट्री प्रयोजयेत् ॥१५९॥ शकादयश्व = शकयवनादिजातयन, भद्रदत्तादिनामभिः = भद्रदत्तादिसंज्ञाभिः, सभाष्याः = संभाषणीयाः । क्वचित "शकादयश्चे"त्यादिस्थाने "शाक्यादयश्च संभाष्या भदन्तेत्यादिनामभिः ।" इति पाठान्तरम् । तत्र शाक्यादयः : बौद्धादयः, "भदन्ते". त्यादिनामभिः, संभाष्या: = सम्बोधनीया इत्यर्थः । यस्य - जनस्य, यत् कर्म = किया, मालाकरणादिः, शिल्पं = विशिष्ट क्रियाकोशल, विद्या मीमांसादिः, जातिः = ब्राह्मण. स्वादिर्वा, असौ = सः, तेनैव = तस्कर्मादिप्रकाशकेन, नाम्ना, यथोचितम् = औचित्याऽ. नुसारं, वाच्यः = कथनीयः, ताम्बूलिक ! चित्रकर ! मीमांसक ! ब्राह्मण इत्यादिना सम्बोधनीय इति भावः ॥ १५७॥
आषाविभाग:-अनीचानां = नीभिनानाम्, उत्तममध्यमानामिति भावः । कृतात्मनां = पण्डितानां, भाषा "संस्कृतं" स्यात् । "संस्कृतं नाम देवीवागवाख्याता महर्षिभिः ।" इति दण्डिसिद्धान्ताऽनुसारं देवभाषेति भावः ॥ १५८ ।।
तादृशीनाम् = अनीचाना, कृतात्मनां = विदुषीणा, योषितां = स्त्रीणां, "सौर. सेनी" भाषा प्रयोक्तव्या = प्रयोजनीया । "शौरसेनी"ति पाठान्तरमुभयत्र प्राकृतभाषाभेदो बोद्धव्यः । शूरसेनो मथुराया निकटवर्ती देशस्तत्र भवा शौरसेनीति व्युत्पत्तिः । आसाम् एव-उक्तप्रकाराणां योषिताम् एव, गाथासु-गीतप्रबन्धेषु, महाराष्ट्री-भाषा; प्रयोजयेत=कुर्यात्।महाराष्ट्री नाम-महाराष्ट्रभाषा,प्रधानप्राकृतभाषा । "महाराष्ट्राषयां भाषा प्रकृष्टं प्राकृतं विदुः ।" इति काव्यदर्श दण्डी ( १-३४) ॥ १५९ ।।
शक आदिसे भद्रदत्त आदि नामोंसे संभाषण करना चाहिए। जिसका जो कर्म, शिल्प, विद्या वा जाति है ।। १५७ । ___उसी नामसे उसे कहना चाहिए। और विषय औचित्य के अनुसार जानना चाहिए।
भाषाविभाग -उत्तम, मध्यम और शिक्षित पुरुषों की संस्कृतभाषा हो । वैसी ही ( उत्तमा, मध्यमा और शिक्षित स्त्रियों की सौरसेनी भाषाका प्रयोग होना चाहिए । वैसी ही स्त्रियोंके गानप्रबन्धोंमें महाराष्ट्री भाषाका प्रयोग हो ॥१५९॥
३२ सा०