SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः वदेद्राज्ञीं च चेटीं च भवतीति विदूषकः ॥ १४९ ॥ आयुष्मन् रथिनं सूतो वृद्धं तातेति चेतरः । वत्सपुत्रकतातेति नाम्ना गोत्रेण वा सुतः ॥ १५० ॥ शिष्यांऽनुजश्च वक्तव्योऽमात्य आर्येति चाधमैः । विरयममात्येति सचिवेति च भण्यते ।। १५१ ।। साधी ! इति तपखी च प्रशान्तचोच्यते बुधैः । स्वगृहीताभिधः पूज्यः शिष्याद्य विनिगद्यते ॥ १५२ ॥ वेदमन्त्रद्रष्टारः), लिङ्गिनश्च (ब्रह्मवारितापसादिचिह्नधारिणो जनाः), "भगवन्" इति वक्तव्याः । विदूषकः, राज्ञीं- राजमहिषी, चेटीं च दासीं च, "भवती"ति वदेत् ।। १४९|| सूतः - सारथि:, रथिनं रथारूढं जनम् "आयुष्मन्' इति वदेत् । इतरः = अन्यः; युवा बालकश्चेति भावः । वृद्धं जनं तातेति वदेत् । सुनः पुत्रः, पित्रेति शेषः ॥ १५० ॥ शिष्य : = अन्तेवासी, गुरुणेति शेष:, अनुजः प्रवरजः; ज्येष्ठेनेति शेषः । “वस्स” “पुत्रक” “तात" इति नाम्ना = राम इत्याकारकेण, गोत्रेण-अपत्यप्रत्ययेन "राघव ! दाशरथे !" इत्याकारकेण वा वक्तव्यः ॥ १५० ॥ अधर्मः - निकृष्टजनैः, अमात्यः मन्त्री, "आर्य" इति वक्तव्यः । विप्रैः ब्राह्मणैस्तु, अयम् = अमात्यः, "अमात्य" "सचिव " इति भण्यते कथ्यते ।। १५१ । बुधैः - विद्वद्भिः, तपस्वी-तानसः, प्रशान्वा = अन्तरिन्द्रियनिग्रहसम्पन्नो जनः, "साथी" इत्युच्यते । शिष्यार्थः = अन्तेवासिप्रभूतिभिः आद्यपदेन पुत्रादीनां परामर्शः । पूज्यः = पूजनीयो जनः, गुरुपित्रादिरिति भावः । अगृहीताऽभिधः - अगृहीता ( अनुच्चारिता ) अभिधा ( नाम ) यस्य सः, नामग्राहकृस्वेति भावः, "आर्य पूज्य" इत्यादिशब्देनेति शेषः । विनिगद्यते = अभिधीयते ।। १५२ ।। इस शब्द से सम्बोधन करें। विदूषक रानी और चेटीको भी "भवती" शब्द का प्रयोग करे ।। १४९ । careoको सारथि "आयुष्मन्" इस पद से सम्बोधन करे । अन्य बालक और युवा) वृद्धको "तात " ऐसे शब्दका प्रयोग करे । पुत्र, शिष्य, और छोटे भाईको पिता, गुरु ओर बड़ा भाई "वत्स" "पुत्रक" और "तात" इन शब्दोंसे वा नामसे अथवा गोत्रप्रत्ययान्त शब्द से सम्बोधन करे ।। १५० ।। निकृष्ट पात्र अमात्य ( मन्त्री ) को "आयं" पदसे सम्बोधन करे । ब्राह्मण मन्त्रीको "अमात्य" और "सचिव " इन शब्दोंसे व्यवहार करें ।। १५० ।। विद्वान् तपस्वी और प्रशान्त ( ब्रह्मवेता ) को "साधो" इस शब्द से सम्बोधन करें । शिष्य आदि पूज्य ( गुरुजन ) को नाम न लेकर ( आर्य वा सुगृहीतनामधेय इत्यादि शब्दोंसे ) सम्बोधन करें ।। १५२ ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy