________________
षष्ठः परिच्छेदः
-
-
-
यथा वीरचरिते
__ 'रामः-अयं सः, यः किल सपरिवारकार्तिकेयविजयावर्जितेन भगवता नीलले हितेन परिवत्सरसहस्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः । _____परशुरामः-राम दाशरथे ! स एवायमार्यपादानां प्रियः परशुः । इत्यादिः ।
प्रारब्धादन्यकार्याणां कारणं परिवर्तकः । यथा वेण्याम
'भीमः--सहदेव ! गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यस्त्रागारं प्रवि. श्यायुधसहायो भवामीति यावत्। अथवा आमन्त्रयितव्यैव मया पाञ्चाली।' इति ।
संलापमुदाहरति-यथेति । सपरिवारेत्यादिः = सपरिवारः (वाधवसहितः) यः शतिकेयः ( स्कन्दः) तस्य विजयेन (पराजयेन ) आवजितेन ( वशीभूतेन ); नीललोहितेन = शङ्करेण, कण्ठे नीलो जटायां लोहितो नीललोहितः = धूर्जटिः । परिवत्सरसहस्रान्तेवासिने = परिवत्सराणां ( संवत्सराणाम् ) यत्सहस्रं - तत्कालपर्यन्तम् अन्तेवासिने (छात्राय ) प्रसादीकृतः= अनुग्रहविषयीकृतः। परशुः = परश्वधः, आर्य. पादानां = पूज्यचरणानां, भगतत. शङ्करस्येति भावः । अत्र सपरिवारकात्तिकेयविजयेन वीर्यातिशयः, परिवत्सरसहस्रमन्तेवासित्वेन महाध्यवसायत्वं चेति गभीरमावोक्तेः संलापो नाम सात्वत्या भेदः ।
__ परिवर्तकं लक्षयति-प्रारब्धादिति । प्रारब्धात् = उपक्रान्तकार्याद, अन्य. कार्याणाम् = अन्यानि ( अपराणि ) यानि कार्याणि ( कृत्यानि ), तेषां कार्यान्त राणामित्यर्थः, कारणं = हेतुः, "करणम्” इति पाठान्तरे अनुष्ठानमित्यर्थः ।
परिवर्तकमुदाहरति यथेति । गुरुं = पूजनीय, युधिष्ठिरमिति भावः । अनु. वर्तस्व = अनुसर, पाञ्चाली = द्रौपदी।
जैसे वीरचरितमें-राम-परिवारके साथ कात्तिकेयको जीतनेसे वशीभूत भगवान शङ्करसे हजारों वर्षके छात्र आपको अनुग्रहसे दिया गया यह परशु (फसी) है" परशुराम-राम ! दशरथनन्दन ! आर्यचरण ( शङ्कर ) का प्यारा यह वही परशु है।
परिवर्तक-प्रारब्ध कार्यसे अन्य कामोंको करनेको "परिवर्तक" कहते हैं ।
जैसे वेणीसंहारमें भीमसेन-सहदेव ! तुम जाओ गुरु ( युधिष्ठिर ) का अनुसरण करो। मैं भी अस्त्रगृहमें प्रवेश कर अस्त्र लेता हूं। अथवा मुझे तब तक द्रौपदीको संबोधन करना चाहिए ।