________________
४८८
साहित्यदर्पणे
-
-
-
अथारभटी
मायेन्द्रजालसंग्रामक्रोधोद्घान्तादिचेष्टितैः ॥१३२ ॥ संयुक्ता वधवन्धाघेरुद्धतारभटी मता। वस्तूत्थापनसंफेटौ संक्षिप्तिरवपातनम् ॥ १३३ ॥ इति भेदास्तु चत्वार आरभट्याः प्रकीर्तिताः । ।
मायाद्य स्थापितं वस्तु वस्तूत्थापनमुच्यते ॥ १३४ ॥ यथोदात्तराघवे'जीयन्ते जयिनोऽपि सान्द्रतिमिरव्रातैर्वियद्वयापिभि
स्विन्तः सकला रवरपि कराः कस्मादकस्मादमी। ___. आरभटी लक्षयति-मायत्यादिः । माया (विद्याविशेष:), इन्द्रजालं (मन्त्रीष. धादिना चमत्कारसाधनम् ), संग्रामः ( युद्धम् ) क्रोधः ( कोपः ) तेन उद्घान्तं (स्वपरज्ञानराहित्यम् ) तदादिचेष्टितः ( तदादिचेष्टाभिः) ॥ १३२ ॥
वधबन्धार्थ:- हननबन्धनप्रभृतिभिर्व्यापारः, संयुक्ता = सहिता, उरता - औरत्योपेता, वृत्तिः आरमटी, मता।
मारभटीभेदाग्निदिशति-वस्त्वित्यादिः। वस्तूत्थापन, सम्फेटः, संक्षिप्तिः अवपातनम् ॥ १३३॥
इति भारभट्या वृत्तः, पत्वारो भेदाः प्रकीर्तिताः ।
· वस्तूत्थापनं लक्षयति-मायेत्यादिः। मायायु स्थापितं = मायया ( विद्या. विशेषेण ) आदिपदेन इन्द्रजालेन च, उत्थापितम् ( उत्पादित ) च वस्तु = पदाऽर्थः "वस्तूस्थापनम्" उच्यते ।। १३४ ॥
___ वस्तूत्थापनमुदाहरति-जीयन्त इति । अकस्मात् = अकित एव, कस्मात् - कुतो हेतोः, वियद्वयापिभिः = आकाशव्यापनशीलः, सान्द्रतिमिरव्रातः = निबिडितम.
स्तोमः, जयिनोऽपि = जयशीला अपि, भास्वन्तः = प्रचुरप्रकाशाः, सकला: समस्ताः, ___ अमी - एते, रवेः = सूर्यस्य, कराः = किरणाः अपि, जीयन्ते = परिभूयन्ते । उन.
प्रारभटी-माया, इन्द्रजाल, युद्ध, युद्घान्त आदि चेष्टाएँ ॥ १३२ ।। वध और बन्धन आदिसे संयुक्त उदधृत वृत्ति "आरमटी" मानी गई है। प्रारंभटी के भेद-वस्तूत्थापन, सम्फेट, संक्षिप्ति और अवपातन ॥१३३॥ आरभटीके चार भेद कहे गये हैं। . वस्तस्थापन-माया आदि से उत्पादित वस्तु "वस्तूत्थापन" होता है ॥१३४॥
जैसे उवात्तराघवमें-जयशील चमकदार सूर्यकी समस्त ये किरणें भी आकाशको व्याप्त करने वाले गाढे अन्धकारसमूहोंसे कैसे अकस्मात् जीती जा रही हैं ?