SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ४८५ अथ सात्त्वती साचती बहुला सचशौर्यत्यागदया वैः ।। १२८ ।। महर्षा क्षुद्रशृङ्गारा विशोका साश्ता तथा। उत्थापकोऽथ सांघात्यः संलापः परिवर्तकः ॥ १२९ ।। विशेषा इति चत्वारः सावत्याः परिकीर्तिताः । उत्तेजनकरी शत्रो गुत्थापक उच्यते ।। १३० ।। यथा महावीरचरिते'आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा वैतृष्ण्यन्तु ममापि सम्प्रति कुतस्त्वदर्शने चक्षुषः । सात्त्वती लक्षयति-सात्वतीति । सात्त्वशोयंत्पागदयाऽऽजवः सत्त्वम् (अध्यवसायः ) शौयं ( शूरता ) त्यागः ( दानम् ) दया (कृपा) आर्जवम् (ऋजुता, सरलतेति भावः ) नथा च एतगुणः, बहुला - प्रचुरा ॥ १२८ ।। सहर्षा = हर्षसहिता, क्षुद्रशृङ्गारा-अल्पशृङगारयुक्ता । विशोका-शोकरहिता तथा साद्भुता = अद्भुतरससहिता, या वृत्तिः सा "सात्वती"। सात्वत्या भेदान्निर्दिशति-उत्थापक इति । उस्थापकः, साङ्घात्यः, संलापः परिवर्तकश्च ॥ १२९ । इति एवं, सात्वत्या वृत्तेश्चत्वारो विशेषाः भेदाः, परिकीर्तिताः । उत्थापकं लक्षयति-उत्तेजनकरीति । शत्रोः = वैरिणः, उत्तेजनकरीकोधवृद्धिकारिणी, वाक् = वाणी, "उत्थापकः" उच्यते ।। १३०॥ उत्थापकमुदाहरति-प्रानन्दायेति । श्रीराम प्रति रावणप्रेरिसस्य वालिन उक्तिरियम् । मया स्वम् आनन्दाय-हर्षोत्पादनाय, प्रियदर्शनत्वादिति शेषः । विस्मयाय= आश्चर्योत्पादनाय, रूपाऽतिशयादिति शेषः । दुःखाय वा = व्यथोत्पादनाय वा, हन्त. व्यत्वादिति शेषः । दृष्टः = अवलोकितः, असि = विद्यसे, तु = परन्तु, सम्प्रति = अधुना, त्वद्दर्शने मवद्विलोकने, मम, चक्षुषः = नेत्रस्य, वैतृष्ण्यं तृष्णाऽभावः, कुत:= सात्वती-सत्त्व (बल), शूरता, दान, दया तथा सरलता और हर्षसे युक्त कुछ शृङ्गारसे सहित, शोकरहित और अद्भुत रससे युक्त वृत्तिको "सात्वती" कहते हैं, उसके उत्थापक, साङ्घात्य, संलाप और परिवर्तक ये चार भेद कहे गये हैं ॥ १२८-१२९ ॥ उत्थापक--शत्रुको उत्तेजना करनेशली वाणी "उत्थापक" है ।। १३०॥ जैसे महावीरचरितमें--आनन्द, आश्चर्य और दुःखके लिए तुम मुझसे देखे गये हो । आज इस समय तुह्मारा दर्शन होनेपर मुझे वितृष्णता कहाँ है ? जो कि
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy