________________
४८४
यथा मालतीमाधवे -
साहित्यदर्पणे
'गमनमलसं शून्या दृष्टिः, शरीरमसौष्ठवं,
श्वसितमधिकं, किन्वेतत् स्यात् किमन्यदितोऽथवा । भ्रमति भुवने कन्दर्पाज्ञा, विकारि च यौवनं
ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥' अत्र अलसगमनादिभिर्भावलेशैर्माधवस्य मालत्या मनुरागः स्तोकः प्रकाशितः । गर्भो व्यवहृतितुः प्रच्छन्नवर्तिनः ।
यथा-तत्रैव सखीरूपधारिणा माधवेन मालत्या मरणव्यवसायवारणम् ।
नर्मस्फोटमुदाहरति- गमनमिति । माधवं प्रति मकरन्दस्योक्तिरियम् । माधवस्य गमनं == गतिः, अलसम् = आलस्ययुक्तं, मन्दमित्यर्थः ।
=
दृष्टिः = दृक्, शून्या= निर्विषया, शरीरं देहः, असौष्ठवं सौष्ठवरहितं, सौन्दर्य रहितमिति भावः । श्वसितं = निःश्वासः, अत्रिकम् = अतिरिक्तम् अस्वाभाविकमितिभावः । एतत् किं नु स्यात् = भवेत्, अथवा = यद्वा इतः अस्मात्, अपरम् - अन्यत् कि, स्यात् ? यतो भुवने-लोके, कन्दर्पाज्ञा = कन्दर्पस्य ( कामदेवस्य ) आज्ञा ( अनुज्ञा ), भ्रमति = भ्रमणं करोति, यौवनं च = तारुण्यं च विकारि = मनोविकारकारि, अस्तीति शेषः । एवं च ललितमधुराः - मृदुलमनोहराः, ते ते प्रसिद्धा अनु भूतपूर्वा वा भावा: चन्द्रचन्दनादिपदार्थाः, धीरतां धेयं क्षिपन्ति = निवास्यन्ति । हरिणी वृत्तम् ।
=
=
उदाहरणं विशदयति-प्रलसगमनाविभिरिति । तादृशैर्भावलेशैः । स्तोकः = अल्पः नर्मगर्भ लक्षपति - नर्मगर्भ इति । प्रच्छन्नवर्तिनः = अदृश्यभावेन स्थितस्य, नेतुः = नायकस्य, व्यवहृतिः = व्यवहारः, "नर्मगर्भः " ।
नगर्भमुदाहरति यथेति । तत्रैव मालतीमाधव एव । सखीरूपधारिणा वयस्थावेशधारकेण, लवङ्गिकाकालरूपधारकेणेति भावः । मरणव्यवसायवारणं मरणव्यवसायस्य ( आत्म महत्योद्योगस्य ) वारणम् ( निवारणम् ) ।
-
=
=
जैसे मालतीमाधवमें गति आलस्यपूर्ण, दृष्टिशून्य, शरीर संस्काररहित, श्वास अधिक, यह इससे भिन्न क्या होगा ?
लोक में कामदेवकी आज्ञा भ्रमण कर रही है, यौवन विकारयुक्त है, कोमल और मनोहर वे भाव ( रतिचेष्टाएँ ) धर्मको हटा रहे हैं ॥
इसमें आलस्यपूर्ण गमन आदि अल्प अभिप्रायोंसे मालती में माधवका कुछ अनुराग प्रकाशित हुआ है ।
नर्मगर्भ -- प्रच्छन्न रूपसे विद्यमान नायकके व्यवहारको "नर्मगर्भ" कहते हैं । जैसे वहीं पर सखी के रूपको लेनेवाले माधवका मालतीके मरणके उद्योगको हटाना ।