________________
४६८
साहित्यदर्पणे
पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते
कृष्णात्यन्तचिरोज्झिते तु कबरीबन्वे करोतु क्षणम् । रामे शातकुठारभास्वर करे, क्षत्रद्रुमोच्छे दिन,
- क्रोधान्धे च वृकोदरे परिपतत्याजौ कृतः संशयः ? ॥' कार्य संग्रह आदानम् -
यथा वेण्याम्- 'भो भोः समन्तपञ्चकचारिणः !
=
=
प्ररोचनामुदाहरति- पूर्यन्तामिति । पाञ्चालकस्य युधिष्ठिरं प्रत्युक्तिरियम् । हे राजन् ! ते तव, राज्याभिषेकाय = राज्ये ( राष्ट्र ) अभिषेकाय ( अभिषेचनसंस्काराय ), सलिलेन - तत्तत्तीर्थजलेन, रत्नक्लशा:- मणिखचितकुम्भाः, पूर्यन्तां प्रियन्ताम् । कृष्णा = द्रौपदी, तु, अत्यन्तचिरोज्झिते - अतिचिरकालपरित्यक्ते, कबरीबन्धे - केशवेशबन्धने, क्षणम् = उत्सवं, "वक्षण उद्धर्षो मह उद्धव उत्सवः " इत्यमरः । करोतु = विदधातु । शातकुठारभास्वरकरे-शात : ( 'शाणादिना तीक्ष्णीकृतः ) य: कुठारः ( परशुः ) तेन भास्वर : ( दीप्तिसम्पन्न : ) करः ( हस्तः ) यस्य सः, तस्मिन् । तथा च क्षत्रद्रुमोच्छेदिनि = = क्षत्रा: ( क्षत्रियाः ) एव द्रुमाः ( वृक्षाः ) ताम् उच्छिनत्तीति तस्मिन् । क्षत्रियरूपवृक्षोच्छेदक इति भावः । तादृशे रामे - जामदग्न्ये, क्रोधाऽन्धे = कोपाऽन्ध, वृकोदरे भीमसेने, च, आजी = युद्धे, परिपतति = प्रविशति सति, सर्वत्र " यस्य च भावेन भावलक्षणम्" इति सम्मी । कुतः कस्माद्धेतोः सशय:सन्देहः, युद्धजय इति शेषः । शार्दूलविक्रीडितं वृत्तम् ।
=
अत्र पूर्वार्द्धस्थवाक्यद्वयेन युद्धोपसंहारप्रदर्शनात्प्ररोचना ।
आदानं लक्षयति- कार्यसंग्रह इति । कार्यसंग्रहः कार्याणां ( कर्मणाम् ) संग्रह: (सङ्कलनम् ) "आदावम्" नामाऽङ्गम् ।
1
आदानमुदाहरति - यथेति । समन्तपञ्चकसंचारिणः समन्तपञ्चकाख्यस्थान सचरणशीलाः !, समन्तात ( समन्ततः) पञ्चकं ( नदपचम् ) यस्मिंस्तत्, तीर्थभेदः । कुरुक्षेत्रं वा तनिकटस्थ प्रदेश: !
( हे राजन् ! ) आपके राज्याभिषेक के लिए रत्न कलश तीर्थजल से पूर्ण कि जायें । द्रौपदी बहु समयसे छोड़े गये केशवेशके संस्कार के लिए उत्सव करें। ती फरसे से चमकते हुए हाथवाले क्षत्रियरूप वृक्षोंको काटनेवाले ऐसे परशुराम के क्रोध से अन्धे भीमसेनके संग्राम भूमिमें आ पड़ने पर युद्ध - जय में कैसे सन्देह होगा ?
कार्योंका संग्रह करनेको "आदान" कहते हैं ।.
जैसे बेणीमें- हे समन्तपसमें सम्वरण करनेवाले !