________________
षष्ठः परिच्छेदः
व्यवसायश्च विशेषः प्रतिज्ञाहेतुसंभवः ।
यथा तत्रैव'भीमः -
यथा तत्रेष
निहताशेषकौरव्यः क्षीबो दुःशासनशा सृजाः । भक्ता दुर्योधनस्योर्भीमोऽयं शिरसा नतः ॥ द्रवो गुरुव्यतिक्रान्तिः शोकावेगादिसम्भवा ॥ १०३ ॥
४६१
'युधिष्ठिरः - भगवन् ! कृष्णाग्रज ! सुभद्राभ्रातः ।
व्यवसायं लक्षयति – व्यवसायश्चेति । प्रतिज्ञाहेतुसंभवः - प्रतिज्ञा ( कार्यनिर्देश:), हेतु: ( साधन निर्देशः ) ताभ्यां संभव: (निष्पत्ति: कार्यस्येति शेष: ) 1"व्यवसाय:" विज्ञेयः बोद्धव्यः ।
-
-
व्यवसायमुदाहरति-निहतेत्यादिः । भीमसेनस्य दुर्योधनस्योरुभङ्गोत्तरं युधिष्ठिरं प्रत्युक्तिरियम् । निहताऽशेषकौरव्यः = निहताः ( व्यापादिता: ) अशेषाः ( समस्ताः ) कौरव्याः ( कुरुवंशोत्पन्ना दुर्योधनादय इति भावः ) येन सः । दुःशासनाऽसृजा - दुःशासनस्य ( मध्यमधार्तराष्ट्रस्य ) असृजा ( रुधिरेण ), श्रीब: मतः "मत्ते शोण्डोत्कट-क्षीबाः" इत्यमरः । भीमे कीबत्वारोपेणाऽसृजो मधुस्वारोपणं व्यङ्गयम् । एवं च - दुर्योधनस्य = सुगोधनस्य, ऊर्वोः - सक्थ्नोः, "कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी "सक्थि क्लीबे पुमानूरु” रित्यमरः । भङ्क्ता-भञ्जकः, अयं = सन्निकृष्टवर्ती, भीमः - भीमसेनः, शिरसा = मस्तकेन, नतः प्रणतः, भवतीति शेषः । अनुष्टुब् वृत्तम् । अत्र द्रौपदी| केशाकर्षणाद्धेतोः = ऊरुभञ्जनरूपाया: प्रतिज्ञायाश्च निष्पत्तेः "व्यवसायः " ।
-
द्रवं लक्षयति- द्रव इति । शोकावेगादिसंभवा = शोक: ( मन्युः ) आवेगः(संभ्रमः) तदादिसंभवा ( तदाद्य त्पना ), गुरुव्यतिक्रान्तिः - गुरोः ( पूज्यजनस्य ) व्यतिक्रान्ति: ( मर्यादालङ्घनम् ) " द्रवः " ॥ १०३ ॥
प्रतिज्ञा और हेतुसे कार्यकी निष्पत्तिको "व्यवसाय" कहते हैं ।
जैसे वहीं पर - भीमसेन समस्त कौरवोंका संहार करनेवाला, दुःशासनके रुधिर ( लोहु ) से मत्त और दुर्योधनके ऊरुमोंको भग्न करनेवाला यह भीम शिरसे अवनत होता है ।
शोक और संभ्रम से उत्पन्न: पूज्यजनके मर्यादालङ्घनको "द्रव" कहते हैं ।। १०३ ॥ जैसे वहीं पर - युधिष्ठिर - भगवन ! श्रीकृष्णके अग्रज ! सुभद्राके भाई !.