________________
४६०
साहित्यदर्पणे
यथा तत्रैव
'दुर्योधन:--अरे रे मरुत्तनय ! वृद्धस्य राज्ञः पुरतो निन्दितमध्यात्मकर्म श्लापसे । शृणु रे!
कष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञस्तयोर्व प्रत्यक्षं भूपतीनां मम भुक्नपतेराज्ञया घतदासी। तस्मिन् वैरानुबन्धे बद किमपकृतं तेहता ये नरेन्द्रा
बाहोर्यातिभारद्रविणगुरुमदं मामजित्वेव दर्पः ।। भीम:--(सक्रोधम् ) आः पाप। दुर्योधन:-आः पाप !' इत्यादि ।
संफेटमुदाहरति-यति । राजा = भूपः, दुर्योधन इति भावः । मस्तनय - वायुपूत्र, भीमसेन इति भावः । वायुपुत्रत्वाद्वायुतुल्यत्वं सूच्यते । यतस्य राज्ञः- ध्रतराष्ट्रस्येत्यर्थः । आत्मकर्म = स्वक्रियां, गोत्रहत्यादिरूपामिति भावः । श्लाघसे-प्रशंससि ।
कृष्टेति। दुर्योधनस्य भीमसेनार्जुनौ प्रत्युक्तिरियम् । भवनपतेः = लोकाशीश्वरस्य, मम = दुर्योधनस्य, आज्ञया = आदेशेन, घ तदासी: घने (अक्ष क्रीडायाम् ) दासी (निजितत्वाहासीतुल्या ), पगोः = पशुसदशम्य, तव = भीमस्य, तव अर्जुनस्य च, तस्य राज्ञः = युधिष्ठिरस्य, तयोर्वा = नकुलसहदेवयोश्च, भार्या = पत्नी द्रौपदी, भूपतीनां = सभास्थितानां राज्ञां च, प्रत्यक्षं = समक्षम् एव, केशेषु कुन्तलेषु, कृष्टा= आकृष्टा, अस्मिन्, वैराऽनबन्धेविरोधकारणे जाते सति, ये नरेन्द्रा:- राजानः, हताःब्यापादिताः, तैः = हर्नरेन्द्रः, किम, अपकृतं-युष्माकमपकारः कृतः ? वद = कथय, एराऽपराधेन निर्दोषाणां दण्डप्रदत्वेन यूयं पशुसमा इति भावः । बाह्वोः = स्वभुजयोः; बीर्याऽतिभारद्रविणगुरुमदं = वीर्याऽतिभारः (बलाऽतिशयः ) एव द्रविणं (धनम् ) तेन गुरु: ( दुर्वहः ) मदः ( अहङ्कारः ) यस्य, तं, तादृशं, मां = दुर्योधनम्, अजित्वा एव = अपराजित्य एव, पः= अहङ्कारः, युष्माकमिति शेषः । स्रग्धरा वृत्तम् ॥
भीम इति । पाप = पापयुक्त । "त्रिषु द्रव्ये पापं पुण्यं सुखादि चे"त्यमरः । पत्र रोषेण भाषणात् "संफेटः" ।
जैसे वहींपर-राजा ( दुर्योधन)-अरे वायुपुत्र! वृद्ध राजाके सामने निषिद्ध अपने कर्मकी मी तारीफ करता है ? सुन रे ! लोकस्वामी मेरी आज्ञासे जुएमें जीती गई दासी पशुसदृश तेरे ( भीमसेनकी ) तेरे ( अर्जुनकी ) राजा ( युधिष्ठिर ) की और नकुल और सहदेवकी पत्नी द्रौपदी राजाओके सम्मुख ही केशोमें खींची गई, ऐसा विरोधका कारण होनेपर जो राजा मारे गये उन्होंने तुम्हारा क्या अपराध (कसूर) किया था ? कहो। अपनी बाहुओंके पराक्रमरूप धनसे महान दर्पसे युक्त मुझे जीते बिना ही तुम लोगोंका दर्प है।
भीमसेन-(क्रोधपूर्वक ) "ओह पापिन् !" राणा ( दुर्योधन )-"ओह नापिन् !" इत्यादि।