________________
४५८
साहित्यदर्पणे
नृपादिजनिता भीतिरुद्व ेगः परिकीर्तितः ।
यथा वेण्याम् - :
'प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः । स कर्णारिः स चक्ररो वृककर्मा वृकोदरः ।।' शङ्काभयत्रासकृतः सम्भ्रमो विद्रवां मतः ।। १०० ।। 'कालान्तककरालाभ्यं क्रोधोद्भूतं दशाननम |
विलोक्य वानरानी के सम्भ्रमः कोऽप्यजायत ।'
•
वसन्तकस्य सज्ञां करोमि इति संस्कृतच्छाया । सङ्केतम् = संज्ञ म् । अत्र कान्वनमालया वासवदत्तया च छलेन राजविदूषकयोरभिप्रायज्ञानात् "अधिबलं" नाम गर्भसन्धेरङ्गम् । उद्वेगं लक्षयति- नृपादिजनितेति । नृपादिजनिता = राजाद्य त्पन्ना, आदिपदेन सपत्नादीनां परामर्शः । भीतिः- भयम्, "उद्वेगः " परिकीर्तितः ।
उद्वेगमुदाहरति प्राप्ताविति । धृतराष्ट्रादीनां समीपे सूतस्योक्तिरियम् । सः - प्रसिद्धः, कर्णादिः = कर्णशत्रुः, अर्जुन इति भावः । स च क्रूरः = निर्दयः, "क्र. रो कठिन नियो" इत्यमरः । वृककर्मा - वृकस्य ( ईहामृगस्य ) इव कर्म ( बहुभोजन रूपा अधिक हिंसनरूपा वा क्रिया ) यस्य सः, वृकोदरः = भीमसेनश्च एतो, इतस्ततः = यंत्र तत्र, त्वां = भवन्तं दुर्योधनमित्यर्थः पृच्छन्ती = प्रश्न विषयं कुर्वन्तो, एकरथाऽऽरूठो = एकस्यन्दनाऽवस्थित सन्तो, प्राप्तो = उपस्थिती । अनुष्टुब वृत्तम् । अत्र दुर्योधनस्य शत्रुरूपाऽर्जुनभीमजनिताया भीटे रुद्वेगो नाम गर्भसन्धेरङ्गम् ।
विद्रवं लक्षयति- शङ्क ेति । शङ्काभयत्रासकृतः =शङ्का ( अनिष्टसंभावना ) भयं ( भीतिः ) त्रासः ( उद्वेगः ) तत्कृत: ( तद्विहित ) यः संभ्रमः त्वरा स विद्रवो" मतः ॥ १०० ॥
=
विद्रवमुदाहरति-- कालाऽन्तकेत्यादि । कालान्तककरालाऽऽस्यं = काले ( प्रलय समये ) : अन्तकः ( यमराजः ) तस्यैव करालानि (भयङ्कराण ) आस्यानि (मुखानि ) यस्य, तम् । तथा क्रोघोघृत = क्रोधेन (कोपेन हेतुना ), उद्यूतम् ( उत्कम्पित शरीरम् ); वादृशं दशाननं रावणं, विलोक्य-दृष्ट्वा, वानरानीके = वानराणाम् = ( कपीनाम् ) अनीके ( सैन्ये ) कोऽपि = अनिर्वचनीयः, संभ्रमः = स्वरा, पलायनार्थमिति शेषः । अजायत = आविर्भूतः। अनुष्टुब वृत्तम । अत्र वानरानी कस्य शङ्खादिकृतात्संभ्रमाद्विद्रवः । वसन्तको सङ्केत ( इशारा ) करती हूँ । इत्यादि राजा आदिसे उत्पन्न भयको “उद्वेग” कहते हैं । जैसे वेणीमें-- कर्णशत्रु (अर्जुन) और क्रूर वृक् ( भेड़िया ) के समान कर्म करनेवाले भीमसेन एक ही रथमें चढ़ हुए आपको सर्वत्र पूछ रहे हैं ।
"
शङ्का, भय और उद्वेगसे उत्पन्न घबड़ाहटको "विद्रव" कहते हैं ।। १०० ।।
जैसे -- प्रलयकालके यमराजके समान भयङ्कर मुखवाले और क्रोध से कम्पित शरीरवाले रावणको देखकर बानरोंकी सेना में अनिर्वचनीय घबड़ाहट हो गई ।