________________
षष्ठः परिच्छेदः
-
यथाश्वत्थामाङ्के
'एकम्यैव विपाकोऽयं दारुणो भुवि वर्तते । केशप्रहे द्वितीयेऽस्मिन्सूनं निःशेषिताः प्रजाः ॥'
-त्रो (तो) टकं पुनः। संरब्धवाक्यथा चण्डकौशिके-- 'कौशिक:-आ, पुनः कथमचापि न सम्भूनाः स्वर्णदक्षिणाः ।'
-अधिबलममिसंधिश्छलेन यः ।। ९९।। यथा रत्नावल्याम्--
'काञ्चनमाला-भट्टिणि, इयं सा चित्तसालिआ। वसन्तअस्स सणं करोमि' इत्यादि।
, मिप्तिमुदाहरति-एकस्येति । वेणीसंहारे कृपाचार्यस्पोक्तिरियम् । एकस्यद्रौपदीकेशाकर्षणस्य, एव, अयं = सन्निकृष्टस्थः युद्धरूपः, दारुणः= भयङ्करः, पाक: = फलं, तावद, भुवि-भूमी, वर्तते = विद्यते, द्वितीये = द्वयोः पूरणे, अस्मिन् = साम्प्रतिके, केशग्रहे-द्रोणाचार्यकेशग्रहणे, प्रजा:-जनाः, निःशेषिता: विनाशिताः, "ननं निश्चयेन, नूनं तऽर्य निश्चये" इत्यमरः । अत्र प्रजानाशरूपस्य रहस्याऽर्थस्योद्भेदामिप्तिर्नाम गर्भस धेरङ्गम् ।
त्रोटकं लक्षयति-त्रोटकमिति । संरब्धवाक् =संरब्धस्य ( कुपितस्य ) वाक् ( वाणी ) "त्रोटकम्"।
त्रोटकमुदाहरति-यथेति । कौशिकः = विश्वामित्रः । संभूताः = सम्पन्नाः । अत्र कोशिकस्य कोपपूर्णवाच: 'श्रोटकम्” । .
अघिवलं लक्षयति--प्रधिबलमिति । छलेन = कैतवेन, यः, अभिसन्धिः - अभिप्रायज्ञान, तत् "अधिबलं" नाम गभांऽङ्गम् ।। ९९ ॥
अधिबलमुदाहरति-यथेति । काञ्चनमाला-"भत्रि ! इयं सा चित्रशालिका।
जैसे अश्वत्थामाङ्कम- एक ही ( द्रौपदीके केशग्रहण ) का यह भयङ्कर परिणाम पृथिवी में हो रहा है । इस दूसरे ( द्रोणाचार्यके ) के शग्रहणमें निश्चय सबलोग समाप्त हो जायंगे।
__ क्रोधयुक्तके वचनको त्रो ( तो ) टक कहते हैं। जैसे चण्डकोशिकमें-कौशिक ( विश्वामित्र)-"अभीतक क्यों सुवर्ण दक्षिणाएं नहीं दी गई हैं ?"
छलसे अभिप्राय ज्ञानको "अधिवल" कहते हैं ।। ९९ ॥ जैसे रत्नावलीमें-काश्चनमाला-"स्वामिनि ! यह चित्रशालिका है।