________________
साहित्यदर्पणे
यथा महावीरचरिते तृतीयेऽक्के-- 'परिषदियमृषीणामेष वीरो युधाजित् सह नृपतिरमात्यर्लोमपादश्च वृद्धः । अयमविरतयझो ब्रह्मवादी पुराणः प्रभुरपि जनकानामा ! भो याचकरते ॥'
इत्यत्र ऋषिक्षत्रादीनां वर्णानां मेलनम् ।
अभिनवगुप्तपादास्तु-वर्णशब्देन पात्राण्युपलक्ष्यन्ते । संहारो मेलनम्' इति व्याचक्षते।
उदाहरन्ति च रत्नावल्यां द्वितीयेऽङ्के-'अदो वि मे अअं गुरुअरो पसादो
इत्यादेरारभ्य ‘णं हत्थे गेण्हिअ पसादेहि णम् ।' . वर्णसहारमुदाहरति-परिषदिति । अङ्ग = भोः हे जामदग्न्य !, इयम्, ऋषीणां-मन्त्रद्रष्टणा, परिषत् = सभा, एषः, वीरः = विक्रान्तः, युधाजित् = केकय. देशाऽधिपतिः । 'अमात्यः-मन्त्रिभिः, सह = समम्, एषः, वृद्धः =प्रवयाः, लोमपादो नाम, नृपतिः-राजा, अङ्गदेशनरेश इति भावः । अविरत यज्ञः अनवरतयागाऽनुष्ठाता, पुराणः = प्राचीनः; ब्रह्मवादी = ब्रह्मव्याख्याता, अयमपि, जनकानां = जनकवंशोंपन्नानां राज्ञां, प्रभु. = श्रेष्ठः, सीरध्वज इति भावः । एते सर्वेऽपि, ते = तव, समीप इति शेषः । याचका:-शमप्रार्थकाः, सन्तीति शेषः । अत्र "अङ्ग भोः" इत्यत्र 'अद्रुह" इति पाठान्तरम् । अद्रुहः= द्रोहरहिता इत्यर्थः । मालिनी वृत्तम।.
इत्यत्रोति । अस्मिन् पद्य, ऋषिक्षत्रादीनां वर्णानां, मेलनम् ।
अभिनवगुप्त मतं दर्शयति-अभिनवेति । अभिनवगुप्तपादा: = भरतनाटयशास्त्रव्याख्यातारः वर्णशब्दः, पात्रोपलक्षकः, संहारो मेलनम्, इति व्याचक्षते = व्याख्यानं कुर्वन्ति ।
तन्मते नोदाहरणं-रत्नावल्याम् । प्रदो वि इति । "अतोऽपि मे अयं गुरुतरः प्रसादः" इत्यादेरारभ्य -"ननु हस्ते गृहीत्वा प्रसादय एनाम्" इति संस्कृतच्छाया । अत्र गजविदूषकसागरिकासुसंगताऽऽख्यानां पात्राणां मेलनम् ।
जैसे महावीरचरित मे तो परे अहमें_ 'यह ऋषियोंकी सभा है । ये वीर युधाजित् ( केकयनरेश ) हैं । वृद्ध राजा लोमपाद ( अङ्गनरेश ) मन्त्रियोंके साथ हैं । निरन्तर यज्ञ करनेवाले ब्रह्मवादी प्राचीन जनकवंशके राजाओंमें श्रेष्ठ (सीरध्वज) भी आपके शान्तियाचक हैं । यहाँपर ऋषि और क्षत्रिय आदि वर्गों का संमेलन है।
अभिनवगुप्तपाद तो वर्णशब्दसे पात्र उपलक्षित होते हैं उनका संहार-मेलन है ऐसी व्याख्या करते हैं और उदाहरण भी देते हैं
रत्नावलीके दूसरे में-"इससे भी मुझपर यह अधिक अनुग्रह है" इत्यादिसे आराम कर पाय में लेकर इसे प्रसन्न करें।