________________
४४४
साहित्यदर्पणे
द्वारेऽस्य पाण्डुसिकतेपदपछि कश्यतेऽभिनवा ।। ( ३-५ ) कृतस्यानुनयस्यादौ विधुतं त्वपरिग्रहः ।। ६० ।। यथा तत्रैव-'अलं वो अन्तेडरविरहपज्जुस्सुएण राएसिणा उबरुद्वेण ।' केचित्तु - 'विधुतं स्यादति:' इति वदन्ति । उपायादर्शनं यत्तु तापनं नाम तद्भवेत् ।
अवगाढा=
= ईषद्गभीरा, अभिनवा = नूतना, अचिरभवेति भावः । पदपङ्क्तिः = चरणन्यासरेखा, दृश्यते = अवलोक्यते । अतोऽत्र लतामण्डपे तथा भाव्यमिति भावः । आर्या -वृत्तम् । अत्र दुष्यन्तेन दर्शनमप्राप्ताया अभीष्टशकुन्तलाया अनुसरणात् परिसर्पः ।
विधुतं लक्षयति-कृतस्येति । आदी = प्रथमं कृतस्य = विहितस्य, अनुनयस्य = प्रसादनस्य अपरिग्रहः = अस्वीकारः । विधुतम् = विधुतं नाम प्रतिमुखाऽङ्गम् । दशरूपककारेण "विद्यूतम्" इति लिखितम्, क्वचित् "विद्युत "मित्यपि दृश्यते ॥ ९० ॥
विधुतमुदाहरति-यथा तत्र वेति । "अलं वः अन्तःपुरविरहयु रसुकेन राजर्षिणा “उपरुद्धेन” इति संस्कृतच्छाया । अन्तःपुरविरपर्युत्सुकेन = अन्तःपुराणां (लक्षणयाऽन्तः • पुरः स्थितललनानाम् ) विरहेण ( वियोगेन ) पर्युत्सुकेन ( उत्कण्ठितेन ) । राजर्षिणा = दुष्यन्तेन वः = युष्माकं युष्माभिरिति भावः, उपरुद्ध ेन - अनुरुद्ध ेन मदर्थमनुनीतेनेति भावः । अल. कृतम्, अन्तःपुरसुन्दरीषूरकण्ठिते दुप्यन्ते मदर्थमनुनयो न कर्तव्य इति भावः । अत्र शकुन्तलया प्रथमं कृतस्याऽनुनयस्य सखीभ्यां करयितुमस्वीकरणाद्विघुतं जाम प्रतिमुखाऽङ्गम् ।
विधुतविषये मतान्तरं दर्शयति — केचित्विति । केचित् = दशरूपककारादयः "अरति : अप्रीतिः, "विधुतम्" इति कथयन्ति ।
तानं लक्षयति — उपायावर्शनमिति । यत्तु उपायाऽदर्शनम् = उपायस्य ( कारणस्य, अभीष्टप्राप्तिकारणस्येति भावः ), अदर्शनम् ( अविलोधनम् ), तत् "तापनं नाम' प्रतिमुखाङ्गविशेषो भवेत् ।
वालुओं से युक्त इस लतामण्डपके द्वारमें चरणके अग्रभाग में ऊँची और नितम्ब के भार पिछले भाग में कुछ गम्भीर नई चरणन्यासकी पङ्क्ति देखी जा रही है।
पहले किये गये अनुनयको स्वीकार न करनेको "विद्युत" कहते हैं ।। ९० ।। " विधुत " ऐसा पाठान्तर है । जैसे वहीं पर- अन्तः पुरके वियोगसे उत्कण्ठित राजर्षिको रोकना नहीं चाहिए ।" यह शकुन्तलाकी उक्ति है । कुछलोग तो (दशरूपककार आदि) अप्रीतिको "विधुत" रहते हैं ।
उपायके अदर्शनको "तापन" कहते हैं ।