________________
षष्ठः परिच्छेदः
-
४४
रतिलक्षणस्य भावस्थ यो हेतुभूतो भोगो विषयः प्रमदा पुरुषो वा तदर्था समीहा विलासः। यथा शाकुन्तले
'काम प्रिया न सुलभा मनस्तु तद्भावदर्शनायासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ।।' (२-१)
इष्टनष्टानुसरणं परिसपेश्च कथ्यते । यथा शाकुन्तले
राजा-भवितव्यमत्र तया। तथा हि. अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात ।
ग्रन्थकार: प्रकारान्तरेण स्वीयां कारिकां विवृणोति-इतिलक्षणस्यति । रतिलक्षणस्य = रागस्वरूपस्य, भावस्य = क्रियायाः, यो हेतुभूतो विषयः = पात्रं, प्रमदा-स्त्री, पुरुषो बा, तदर्था = तयोरेकतरविषया, समीहा=इच्छा "विलासः" इति ।
विलासमुदाहरति-यथा शाकुन्तले। काममिति । दुष्यन्तस्यात्मगतो. किरियम् । प्रिया = वल्लभा, शकुन्तलेत्यर्थः, काम = यथेष्ट, सुलमा = सुप्राप्या, न । तु = परन्तु. मनः - मदीयं चित, तद्भावदर्शनायासि = तस्याः ( शकुन्तल या:) भावदर्शनेन ( कटाक्षादिचेष्टाविलोकनेन ) आयासि ( अतिप्रयत्नशील, तत्प्राप्त्यर्थमिति शेषः )। "आभासी"ति पाठान्तरे आश्वस्तमित्यर्थः । मनसिजे-कामे, अकृताऽर्थेऽपि3 अकृतकार्येऽपि, संभोगाऽमावेनेति शेषः । उभयप्रार्थना = उभयोः ( नायिकानायकयो.योरपि ) प्रार्थना (मिथ:प्राप्तीच्छा), रतिम् =अनुरागं, कुरुते विदधाति । अत्र आर्या. वृत्तम् । अत्र दुष्यन्तस्य शकुन्तलाप्राप्तीच्छारूपो विलासः।।
परिसर्प नाम प्रतिमुखाऽङ्ग लक्षयति-इष्टनष्टाऽनुसरणमिति । इष्टनानुसरणम् = इष्टस्य ( अभीष्टस्य ) नष्टस्य ( अदृष्टस्य ) सतः पदार्थस्य; अनुसरणम् ( अन्वेषणम् ), परिसर्पः "परिसर्पनामकम्"प्रतिमुखाङ्गम् ।
- परिसर्पमुदाहरति-यथा शाकुन्तल इति। अत्र = लतामण्डपे, तया - शकुन्तलया, भवितव्यं = भाव्यम् । अभ्युनतेति । ( ३-५)। पाण्डुसिकते = पाण्डः (पाण्डुरवर्णा ) सिकता ( बालका) यस्मिस्तस्मिन्, एतेन तत्प्रतिबिम्बयोग्यत्वं ध्वनितम् । अस्य-लतामण्डपस्य, द्वारे = प्रतिहारे। पुरस्तात् = अग्रतः, अभ्युनता = उच्चा, जघनगौरवात -नितम्बगुरुत्वात् । पश्चात पश्चाद्भागे, पाणिदेश इति भावः ।
जैसे शाकुन्तलमें-प्रिया शकुन्तला अत्यन्त ही सुलभ नहीं है । मन तो उसकी चेष्टाके दर्शनसे अत्यन्त उत्कण्ठित है। कामदेवके कृतार्थ म होनेपर भी नायक और नायिकाकी परस्पर प्राप्तिकी इच्छा अनुराग करती है।
अभीष्ट पदार्यके अदृष्ट होनेपर उसके अन्वेषणको "परिसर्प" कहते हैं। जैसे शाकुन्तलमें-राजा-यहां शकुन्तला होनी चाहिए। क्योंकि सफेद