________________
४४०
साहित्यदपणे
यथा बालचरिते
'उत्साहातिशयं वत्स ! तब बाल्यं च पश्यतः ।
मम हर्षविषादाभ्यामाकान्तं युगपन्मनः ॥' यथा वा मम प्रभावत्याम्-नयनयुगासेचनकम्-' (२९३ पृ०) इत्यादि ।
कुतूहलोतरा वाचः प्रोक्ता तु परिभावना । यथा-वेण्यां द्रौपदी युद्धं स्यान्न वेति संशयाना तूर्यशब्दानन्तरम् ‘णाध ! किं दाणि एसो पलअजलहरत्थणि दमत्थरो खणे खणे समरदुन्दुभी ताडीअदि।'
बीजाथस्य प्ररोहः म्यादुद्भेदःविधानमुदाहरति-यथा बालचरित इति श्रीराम प्रति परशुरामस्योक्ति रियम् । हे वत्स = हे वात्सल्यभाजन !, नव= भवतः, उत्साहाऽतिशयम् = अध्यवसागाधिक्यं, बाल्य = शैशवं, च पश्यतः = विलोक्यतः, मम । मनः = चित्तं, युगपत्एकपद एव, हर्षविषादाभ्याम् = आनन्दखेदाभ्याम्, आक्रान्तम् = अधिकृतम् । उत्साहा तिशयेनाऽनन्दः शैशवे हन्त व्यत्वेन विषाद इति भावः । अनुष्टुब् वृत्तम् ।
विधानस्योदाहरणान्तरं प्रदर्शयति-नयनयगासेचनकम् । अत्र प्रभावतीरूपस्य सुखदुःखोत्पादकत्वाद्विधानम् ॥ ८५॥
परिभावनां नाम सन्ध्यङ्गं लक्षयति-कुतूहलोत्तरा इति । कुतूहलोत्तरा: = कौतुकप्रधानाः, बाधः = वाक्यानि, तु, "परिभावना" प्रोक्ता = कथिता ।
परिभावनामुदाहरति-यथा वेण्यामिति । संशयाना-सन्दिहाना । सूर्यशब्दाऽ. नन्तरं वाबध्वन्यनुपदम् । "नाथ ! किमिदानीमेष प्रलयजलघरस्तनितमन्थरः क्षणे क्षणे समरदुन्दुभिस्ताड्यते" इति संस्कृतच्छा ग । प्रलयप्रलय जलधरस्य (कल्पान्तमेधस्य) यत् स्तनितं ( गजितम् ) तदिव मन्थर: ( गम्भीरः ) । अत्र द्रौपया वाचः कुतूहलोत्तर स्थापरिभावना नाम सन्ध्यङ्गम् ।
उभेदं नाम सन्ध्यनं लक्षयति-बीजाऽयस्यति । वीजाऽर्थस्य = "अल्पमत्रं समुद्दिष्टम्" इत्यादिलक्षणलक्षितस्य आदिकारणस्य, प्ररोहः- अङ्कुरणम्, "उभेदः" स्यात्।
जैसे बालचरित में-“हे वस्स ! तुम्हारे उत्साहकी अधिकता और बचपनको देखते हुए मेरा मन हर्ष और विषादसे एक ही बार आक्रान्त हो गया है। अथवा ग्रन्थकारको प्रभावती ( नाटिका ) में "नयनयुगासेचनकम्" इत्यादि । - कौतुकयुक्त वचनोंको "परिभाषना" कहते हैं ।
जैसे वेणी० में द्रौपदी युद्ध होगा वा नहीं ऐसा सशय करती हुई वाघोंके शब्द होनेके अनन्तर "नाथ ! क्यों इस समय प्रलय समयके मेघ गर्जनके समान गम्भीर युद्धकी दुन्दुभि ( वाघतिशेष ) क्षण क्षणमें बजाई जा रही है ।।"
बीजभूत अर्थकी उत्पत्तिको :"उभेद" कहते हैं ।