SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ४३६ साहित्यदर्पणे % 3D यथा तत्रैव चम्चद्भुजभ्रमितचण्डगदाभिघातसंचूर्णितोरुयुगलस्य सुयोधनस्य । . स्त्यानावनद्धघनशोणितशोणपाणिरुत्तंसयिष्यति कचांस्तव देवि ! भीमः ।। अत्रोपक्षेपो नामेतिवत्तलक्षणस्य काव्याभिधेस्य संक्षेपेणोपक्षेपणमात्रम् । परिकरस्तस्यैव बहुलीकरणम् । परिन्यासस्ततोऽपि निश्चयापत्तिरूपतया परितो हृदये न्यसम्, इत्येषां भेदः । एतानि चाङ्गानि उक्तेनैव पौर्वापर्येण भवन्ति, अङ्गान्तराणि त्वन्यथापि । -गुणाख्यानं विलोभनम् । परिन्यासमुदाहरति-यथा तत्रैवेति। चञ्चद्भुजेत्यादिः । द्रौपदी प्रति भीमसेनस्याक्तिरियम् । हे देवि = हे राजहिगि ! द्रौपदि !, चञ्चद्भुजेत्यादिः०=चञ्चन ( सञ्चरन् ) यो भुजः ( बाहुः ), तन भ्रमन्ती ( घूर्णन्ती ) चण्डी ( कठोरा ) या गदा ( कासूः, आयुधविशेषः ) तस्यः यः अभिघतः ( आघात: ), तेन सञ्चूर्णितम् ( चूर्णीकृतम् ) ऊरुयुगलं (सक्थियुग्मम्) यस्य, तस्य, स्त्यानाऽधनद्धेत्यादि:०स्त्यानम् (धनम्) बवलग्न ( सलग्नं ) घनं ( गाढम् .) यत् शोणितं ( रक्तम् ) तेन शोणः ( रक्तवर्णः ) पाषिः (कर:) यस्य सः, तादृशः, सः, भीमः भीमसेनः, तव-भवत्याः, कचान्-कुन्तलान, दुःशासनाकर्षणेन शिथिलितानिति भावः । उत्तंसयिष्यति = भूषयिष्यति । वसन्ततिलका वृत्तम् । अत्र दुर्योधनोहभङ्गरूपस्य भाविकार्यस्य निष्पते. परिन्यासो नाम सन्ध्यङ्गम् ! विवृणोति--प्रत्यति । इतिवृत्तलक्षणस्य वृत्तान्तरूपस्य, काव्याऽभिधेयस्यदृश्यकाव्यप्रतिपादनीयस्य, संक्षेपेण = समासेन, उपक्षेपणमात्रम् = उपस्थापनमात्रम् । भेदः = विशेषः । एतानि = उपक्षेपादीनि त्रीणि । पौर्वापर्येण = अनुक्रमेण ! ___ अङ्गान्तराणि = अन्यानि अङ्गानि, विलोभनादीनि इति भावः । अन्यथाऽपि % अक्रमेणाऽपीति भावः । विलोमनं लक्षयति-गुणाख्यानमिति । गुणाऽऽख्यानं = गुणानाम् (पात्रस्थितशौर्यादीनाम् ) आख्यानं (प्रकथनम् "विलोभनम्"। विलुभ्यतेऽनेनेति व्युत्पत्तिः । ___वह भी वेणीसंहार में ही है-हे देवि ! चलती हुई बाइसे घुमाई गई प्रचण्ड गदाके ताडनसे चूर चूर ऊरुयुगलवाले दुर्योधरके बढ़े हुए संलग्न गाढ रुधिरसे लाल हाथसे युक्त भोमसेन तुम्हारे केशों को भूषित करेगा। इसमें इतिवृत्त रूप काव्य के अर्थका सक्षेपसे उपस्थापनमात्र है। उसीको फैलाना "परिकर" है । इससे भी अधिक निश्चय कर हृदयमें बस ओरसे रखना "परिन्यास" है। यह इनका भेद है ये अङ्ग इसी क्रमसे होते हैं; और अङ्ग भिन्न क्रमसे भी होते हैं । । गुणको "विलोपन" कहते हैं।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy