________________
४३०
साहित्यदपणे
मुखं प्रातमुखं गर्भो विमर्श उपसहतिः ।। ७५ ।।
इति पश्चाऽस्य भेदाः स्युः क्रमाल्लक्षणमुच्यते । यथोदशं लक्षणमाह
यम्र बीजसमुत्पत्तिर्नानाथरससम्भवा ।। ७६ ।।
प्रारम्मेण समायुक्ता तन्मुख परिकीर्तितम् । यथा-रत्नावल्यां प्रथमेऽङ्क।
फलप्रधानोपायस्य मुखसन्धिनिवेशिनः ।। ७७ ॥
लक्ष्यालक्ष्य इकोर्दोदो यत्र प्रतिमुखं च तत् । यथा-रत्नावल्यां द्वितीयेऽक्के वत्सराजसागरिकासमागमहेतोरनु
सन्धिभेदानुद्दिशति-- मुखमिति । अस्य सन्धेः । भेदा: = प्रकाराः । कमात्उद्देशक्रमात् । यथोंद्देशम् = उद्देशाऽनुसारम् । नाममात्रेण वस्तुसंकीर्तनमुद्देशः ।। ७५ ।।
मुख लमयति-यति। यत्र = यस्मिन्, सन्धौ । नानाऽर्थरससंभवा = अनेकवृत्तान्तरसोत्पन्ना ।। ७६ ॥
प्रारम्भेण = पूर्वोत्ताऽवस्थाविशेषेण, समायुक्ता = सम्बद्धा, बीजसमुत्पत्तिः= बीजस्य ( पूर्वोक्तस्याऽर्थप्रकृतिविशेषस्य ) समुत्पत्तिः (प्रादुर्भावः ), तत्, मुख = मुखसन्धिः, परिकीर्तितम् । उदाहरति -यथेति ।
प्रतिमुखं लक्षयति-फलप्रधानोपायस्येति । यत्र = यस्मिन सन्धी, मुखसन्धि. निवेशिन:-मुखसन्धौ निविशते तच्छीलस्तस्य, मुखसन्धिप्रवेशिनः । फलप्रधानोपायस्य= फलस्य (प्रयोजनस्य) यः प्रधानोपाय: (मुख्यकारणम्), तस्य । लक्ष्यालक्ष्यः किञ्चिज्ज्ञेयः, इव । उद्भेदः = प्रकाशः, भवति । तत् प्रतिमुखं प्रतिमुखसन्धिः ।। ७७ ।।
प्रतिमुखमुदाहरति-यथा रत्नावल्यामिति । वत्सराजसागरिकासमागम हेतोः= व सराजसागरिकयोः (उदयसागरिकयो: ), समागमः ( सङ्गमः ), तद्धेनोः
मुख, प्रतिमुख, गर्म, विमर्म और उपसंहार ।। ७५ ॥ सन्धिके ये पांच भेद होते हैं । उनका लक्षण क्रमसे कहते हैं ।
जहां अनेक अर्थ और अनेक रसोंका सूचक बीजकी उत्पत्ति प्रारम्भ नामक अवस्थासे युक्त हो उसे "मुख" कहते हैं ।। ७६ ॥
जैसे रत्नावलीके प्रथम अङ्कमें।
जहां मुखसन्धिमें निवेशित फल प्रधान उपायका विकास कुछ लक्ष्य और कुछ अलक्ष्य हो उसे 'प्रतिमुख" कहते हैं ।। ७७ ।।
जैसे रत्नावलीमें दूसरे अङ्कमें वत्सराज और सागरिकाके समागमका हेतु