________________
.४२८
साहित्यदर्पणे
-
उपायापायशङ्काभ्यां प्राप्त्याशा प्राप्तिसम्भवः ।। ७२ ।।
यथा-रत्नावल्यां तृतीयेऽङ्क वेषपरिवर्तनाभिसरणादेः सङ्गमोपायाद्वासवदत्तालक्षणाऽपायशङ्कया चानिर्धारितकान्तसमरूपफलप्राप्तिः प्राप्त्याशा।
एवमन्यत्र
अपायाभावतः प्राप्तिर्नियताप्तिस्तु निश्चिता ।
अपायाभावाग्निर्धारितकान्तफलप्राप्तिः। यथा रत्नावल्याम्-'राजादेवीप्रसादनं त्यक्त्वा नान्यमत्रोपायं पश्यामि ।' इति देवीलक्षणापायस्य प्रसादनेन निवारणामियतफलप्राप्तिः सूचिता।
__ प्राप्त्याशां लक्षयति-उपायाऽपायेति । उपायाऽपायशङ्काभ्याम् - उपाय: (फलसिदिसाधनम् ) अपायः ( फलसिद्धी प्रतिबन्धः ) तच्छङ्काभ्यां (तत्सन्देहाभ्याम) प्राप्तिसंभवः = फलप्राप्तिसंभावना, प्राप्त्याशा ॥७२॥
प्राप्त्याशामुदाहरति-यया रत्नावल्यामिति । वासवदत्तालक्षणाऽपायशङ्कया : वासवदत्तास्वरूपप्रतिबन्धकसन्देहेन । अनिदारिता अनिधिता, या एकान्ते ( रहसि ), संगमरूपकफलप्राप्तिप्रत्याशा संगमरूपस्य ( उदयनसमागमरूपस्य ) फलस्य (प्रयो. जनस्य ) प्राप्तेः ( लाभस्य ) प्रत्याणा।
नियताऽऽप्ति लक्षयति-प्रपायाऽभावत इति । अपायाऽभावतः - प्रतिबन्धाऽभावात । निश्चिता निर्धारिता, प्राप्तिः फललाभः । नियताऽऽदिः ।
विवृणोति-पायाऽभावात् = प्रतिबन्धाऽभावाद ।
उदाहरति-यति । देवीप्रसादनं वासवदत्तासन्तोषणम् । इति = अनया उक्त्या, देवीलक्षणाऽपायस्य - वासवदत्तारूपप्रतिबन्धस्य।
उपाय ( कारण ) और अपाय ( विघ्न ) को शकाओंसे प्राप्तिकी समावना को 'प्रात्याशा" कहते हैं ।। ७२ ॥
जैसे रत्नावली में तीसरे अकमें वेष बदलना और अभिसरण आदि संगम के उपायसे वासवदत्तारूप विघ्नको शङ्कासे अनिश्चित अवश्य संगमरूप फल की प्राप्तिकी आशा "प्रात्याशा" है।
इसी तरह अन्यत्र भी जानें। - विघ्नके अभावसे निश्चित एकान्तफल प्राप्तिको "नियताप्ति" कहते हैं ।
जैसे रत्नावलीमें राजा-"देवी ( वासवदत्ता) का प्रसादन (प्रसन्न कराना) छोड़कर यहां पर अन्य उपाय नहीं देखता हूँ।" इस प्रकार देवीरूप विघ्नका प्रसादन प्रसन्न कराने ) से निवारण होनेसे निश्चित फलप्राप्तिकी सूचना है।