________________
४२४
साहित्यदर्पण
अर्थप्रकृतयः प्रयोजनसिद्धिहेतवः । तत्र बीजम्
अल्पमानं समुद्दिष्टं बहुधा यद्विसर्पति ।। ६५ ।।
फलस्य प्रथमो हेतु/जं तदभिधीयते । • यथा--रत्नावल्यां वत्सराजस्य रत्नावली प्राप्तिहेतुदेवानुकूल्यलालितो यौगन्धरायणव्यापारः । यथा वा--वेण्यां द्रौपदीकेशसंयम नहेतुर्भीमसेनक्रोधो. पचितो युधिष्ठिरोत्साहः।
अवान्तराथविच्छेदे बिन्दुरच्छेदकारणम् ।। ६६ ।। बीज लक्षयति-मल्पमात्रमिति । यत पुरा, अल्पमात्रं-स्तोकमात्र, समुदिष्टंविनिदिष्टं, पश्चात्, बहुधा = बहुभिः प्रकारः, विसपंति = विस्तारं प्राप्नोति ।। ६५ ।।
फलस्य प्रधानफलस्य, प्रथमो हेतु: मुख्य कारणं, तत्, बीजम्, अभिधीयते निगद्यते ।
___ बोजमुदाहरति-रत्नावल्यामिति । बस राजस्य = उत्यनस्य । रत्नावली. प्राप्तिः = फलं, तद्धतः ( तत्कारणम् ) । देवाऽनुकल्यलालितः = देवस्य (भाग्यस्य) यानुकूल्पम् ( अनुकूलता), तल्लालितः ( तत्सम्पादितः ) यौगन्धरायणव्यापारः योमन्धरायणस्य (.वत्सराजमन्त्रिणः ), व्यापारः ( क्रियाकलापः ), बीजम् । उदाहर. शान्तरमाह पति । वेष्यां-"नामैकदेशे नामग्रहणम्" इति न्यायेन वेणीसंहारे, द्रोपदी. केशसंयमनहेतुः = द्रौपचाः (पाञ्चास्याः) यस्के शसंयमनं (कपसंहरणम् ) ततः (तत्कारणम्); भीमसेनक्रोधोपचितः = भीमसेनस्य (द्वितीयपाण्डवस्य ) यः क्रोधः (कोपः ) तेन उचितः ( उत्पादितः ) युधिष्ठिरोत्साहः, बीजम् ।
बिन्दु लमयति-प्रवान्तरेति । अवान्तराऽविच्छेदे अमान्तराऽर्षस्य (वृत्ता. -न्तकदेशस्प ) बिच्छदे ( समाप्तिप्रसङ्ग प्राप्ते सति ) अच्छेदकारणम् = असमातिहेतुः, बिन्दुः ।। ६६ ॥
जो शुरूमें अल्प मात्र अङ्कुरित होकर अनेक प्रकारसे विस्तारको प्राप्त करता है । ६५ ।।
. फलका प्रथम हेतुभूत उसको "बीज" कहते हैं। जैसे-रत्नावलीमें भाग्यकी अनुकूलतासे युक्त यौगन्धरायणका व्यापार वत्सराज ( उदयन ) का रत्वावलीको प्राप्तिमें कारण है । जैसे-वेणी संहारमें द्रौपदीके केशसंयमनमें कारणभूत भीमसेनके क्रोधसे बढा हुआ युधिष्ठिरका उत्साह है। अवान्तर कयाके विच्छेदमें अविच्छेदके कारणको "बिन्दु" कहते है ।। ६६॥ . .