________________
षष्ठः परिच्छदः
४२१
यथा
मालतीमाधवे प्रथमातादौ कामन्दक्यवलोकिते. भरिवसुप्रभृतीनां भाविभूमिकानां परिक्षिप्तकथाप्रबन्धस्य च प्रसङ्गात्सन्निवेशं सूचितवत्यौ ।
अङ्कान्तपाचैर्वाङ्कास्यं छिन्नाङ्कस्यार्थमूचनात् ।। ६० ।।
अङ्कान्तपात्रैरकान्ते प्रविष्टः पात्रैः। यथा वीरचरिते द्वितीयाऽक्वान्ते(प्रविश्य )
सुमन्त्र:-भगवन्तौ वशिष्ठविश्वामित्रौ भवतः सभार्गवानाह्वयतः । इतरे-क भगवन्तौ ? सुमन्त्र:-महाराजदशरथस्यान्तिके।
इतरे-'तत्तत्रैव गच्छामः' इत्यङ्कपरिसमाप्तौ।-(ततः प्रविशन्त्युपविष्टा वशिष्ठविश्वामित्रपरशुरामाः)' इत्यत्र पूर्वाङ्कान्त एव प्रविष्टेन सुमन्तपात्रेण शतानन्दजनक कथाविच्छेदे उत्तराङ्कमुखसूचनादकास्यम्' इति ।
उदाहरति-यति । प्रथमाऽङ्कादौ = प्रथमाऽङ्कस्य आदी (पूर्वभावे): भाविभूमिकाना = भाविनी ( भविष्यन्ती) भूमिका ( तत्तद्वषरचना ) येषां, तेषाम् । "भूरिवसुप्रभृतीनाम्" इत्यस्य विशेषणम् । परिक्षिप्तकथाप्रबन्धस्य = उपन्यस्तसकलगतान्तस्य, सग्निवेशं = स्थितिम् । मालतीमाधवप्रकरणे तु "अङ्कमुखस्य" स्याने "विष्कम्भक'' इत्युल्लेखो दृश्यते।
दशरूपककारधनञ्जयमतमनुसृत्याऽङ्कमुखं . लक्षयति-प्रड्वान्सपात्ररिति । अवाऽन्तपात्रः = अङ्कान्ते ( अङ्काऽवसाने ) प्रविष्टः, पात्रः (पात्रविशेषः)। छिन्नस्य = विच्छिन्नस्य, अतीताऽङ्कस्येति भावः । अर्थसूचनात् = वृत्तान्तज्ञापनाता, मङ्कास्यम् = अङ्कमुखं, भवेदिति शेषः ।। ६० ।।
विवणोति-प्रवाऽन्तपात्ररिति । वीरचरिते महावीरचरिते । समार्गवान = परशुरामसहितान् ।
जैसे मालतीमाधवमें प्रथम अङ्कके आदिमें कामन्दकी और अवलोकिताने. पोछे ततद्वेष लेनेवाले भूरिवसु आदियोंक और उपक्षिप्त कथाप्रबन्धकी भी स्थितिको श्री प्रसङ्गसे सूचित किया। अङ्कके तमें प्रविष्ट पात्रोंसे परवर्ती अङ्कके अर्थ की सूचना करनेसे भी “अङ्कास्य" होता है ।। ६० ॥
जैसे वीरचरितमें दूसरे प्रहके अन्त में-(प्रवेश कर ) सुमन्त्र-भगवान् वशिष्ठ और विश्वामित्र आपलोगोंको परशुरामके साथ बुला रहे हैं। और लोगभगवान् वशिष्ठ और विश्वामित्र कहाँ हैं ? सुमन्त्र-महाराज दशरथके समीपमें । और लोम-सब वहीं जायें । इसप्रक.र अङ्ककी समाप्तिमें। (तब बैठे हुए वशिष्ठ विश्वामित्र और परशुराम प्रवेश करते हैं ) । यहाँ पूर्व मधुमें ही प्रविष्ट सुमन्त्र पात्रसे शतानन्द और जनकके वार्तालापके बन्तमें उत्तरवर्ती अङ्कमुखकी सूचनासे "अङ्कास्य" है ।