________________
साहित्यदर्पणे
यत्स्यादनुचितं वस्तु नायकस्य रसस्य वा।
विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ।। ५० ।। अनुचितमितिवृत्तं यथा-रामस्य छमना बालिवधः। तच्चोदात्तराघवे नोक्तमेव । वीरचरिते तु वाली रामवधार्थमागतों रामेण हत इत्यन्यथा कृतः ।
अङ्कवदर्शनीया या वक्तव्येव च संमता। या च स्वाद्वर्षपर्यन्तं कथा दिनद्वयादिजा ॥ ५१ ॥
अन्या च विस्तरा सूच्या सार्थोपक्षेपकैबुधैः । यविति । यत् वस्तु नायकस्य रसत्य वा अनुचित विरुद्ध ग, दत् परित्याज्यम्, वा अन्यथा प्रकल्पये दिस्यन्वयः ।
यत् वस्तु = इतिवृत्त, नायकस्य = नेतुः, रसस्य वा = शृङ्गारादिरसस्य वा, अनुचितम् अयोग्य, विरुद्ध वा - पुराणादिविरोधयुक्त वा, तद - दशमितिवतं, परित्याज्यं परिवर्जनीयं, वा-अथवा, अन्यथा-प्रकारान्तरेण, प्रकल्पयेत् =रचयेत् ॥ ५० ॥
विवृणोति-अनुचितमिति । . अनुचितम् = इतिवृत्त वस्तु, यथा रामस्य = राघवस्य, मर्यादापुरुषोत्तमस्येति भावः, छपना = छलेन, असम्मुखयुद्धरूपेणेति भावः । बालिबधः-बालिनिषूदनम् । तच्च = बालिवधरूपमनुचितवस्तु, उदात्तराघवे-मायुराज. कते नाटकविशेषे । न. उक्तं =न प्रतिपादितम् । वीरचरिते भवभूति कृते महावीरचरिते नाटके । अन्यथा = रूपान्तरेण, कृतः = विहितः ।
प्रविति । या = युद्धादिका, अखेषु, अदर्शनीया = "दूराह्वानं वो युटम्" इत्यादिना निषिद्धरूपेण दर्शनाऽनहीं, कथा, परं वक्तव्या = सूचनीया एक, सम्मता%= अभिमता, या च कथा दिनदयादिजा = दिवसद्वितयजाता, वर्षपर्यन्तं - संवत्स राऽन्त, व्याप्ता ॥ ५१॥
___ अन्या = अपरा च, विस्तरा = अतिविस्तृता च, सा= कथा, बुध: कविभिः, वर्षीपक्षेपकः = कथासंसूचकः, वक्ष्यमाणविष्कम्भकादिभिरिति भावः, सूच्या सूचनीया ।
जो वस्तु नायक वा रसके अनुचित हो अथवा विरुद्ध हो उसे छोड़ना चाहिए अथवा बदलना चाहिए ॥ ५० ॥
अनुचित इतिवत्ति जैसे-रामका छलसे बालीको मारना, उसे उदात्त. राघवमें नहीं कहा है । वीरचरितमें तो रामको मारनेके लिए आये हुए बालीको रामने मार डाला इस तरह उसे बदल दिया है।
जो कथा युद्ध आदिकी कथा अजोंमें दिखाने योग्य नहीं है किन्तु बतानेके योग्य है, अथवा दो दिनोंसे लेकर वर्ष पर्यन्त में होने वाली है ॥ ५१ ।।
और विस्तृत कथा हो उन्हें अर्थोपक्षेपकोंसे सूचित करना चाहिए ।