SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ४१५ अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रवं पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यम् ।।' अत्र भाव्यर्थः सूचितः। एतानि चत्वारि पताकास्थानानि कचिन्मङ्गलाथं कचिदमङ्गलार्थ सर्वसन्धिषु भवन्ति । काव्यकर्तुरिच्छावशाद् भूयो भूयोऽपि भवन्ति । यत्पुनः केनचिदुक्तम्-'मुखसन्धिमारभ्य सन्धिचतुष्टये क्रमेण भवन्ति' इति । तदन्ये न मन्यन्ते, एषामत्यन्तमुपादेयानामनियमेन सर्वत्रापि सर्वेषामपि भवितुयुक्तत्वात्। . यस्याः, ताम् । नारीपक्षे-प्रारब्धा जम्मा (मुखविकासः ) यया, ताम् । तथाच; उद्यानलतापक्षे-अविरलः = निरन्तरः, श्वसनोद्गमः = वातोद्गमनः, नारीपक्षेश्वसनोद्गम:=निःश्वासोद्गमनः, क्षणात अल्पकालादेव, आत्मनः-स्वस्याः, बायासम् । उद्यानलतापक्षे-इतस्ततो विक्षेप, नारीपक्षे-मदनखेदम् . बातम्वती-कुर्वसीम, अन्याम् = अपरा, समदनाम् == उद्यानलतापक्षे-मरुवकाऽपरपर्यायमदनवक्षसहिताम् । नारीपक्षे-कामावेशोपेतां, गारीम् इव = रमणीम् इव, इमां = सन्निकृष्टस्थिताम्। उद्यानलताम् = आक्रीडवल्ली, पश्यन् = विलोकयन्, देव्याः कृताऽभिषेकाया राश्या:; वासवद्दताया इति भावः । मुखं = बदन, ध्रुवं = निश्चितं, कोपविपाटलयति = कोपेन (क्र धेन ) महिलम्बोत्पनेनेति शेषः। विपाटला (विशेषेण रक्तवर्णा) द्युतिः (कान्तिः) यस्याः; तत्, तादृश, करिष्यामि-विधास्यामि । घलेषाऽलङ्कारः। शार्दूलविक्रीडितं वृत्तम्।। प्रत्रेति । अत्र = इह, अस्मिन् पद्य। भावी भविष्यन्, विरहत्विन्नसागरिकासंगमरूपः, वासवदताकोपरूपो वा मुख्यः अर्थः = वस्तु, सूचितः = संकेतितः । एतानीति । क्वचि:=कुत्रचित् । अत्र तु चत्वार्येव पताकास्थानानि मङ्गला न्ये वेति बोद्धव्यम्, भूयोऽपि = चतुर्योऽधिकमपीति भावः । सर्वत्राऽपि = सर्वेष्वपि पञ्चसन्धिष्वपीति भावः । विकासबाली, दूसरे पक्ष में जमुहाई लेनेवाली, लगातार हवा चलनेसे कम्पित होनेवाली, दूसरे पक्ष में निरन्तर निःशासोंसे कामवेदनाको प्राप्त करनेवाली, दूसरी कामवासनासे युक्त नारीकी समान मदन वृक्षसे युक्त इस उद्यानलताको देखता हुआ महारानी वासवदत्ताके मुखको निश्चय ही क्रोधसे लाल वर्णवाला करूंगा ।। . इसमें भावी अर्थकी गूचना की गई है। ___ये चार पताकास्थान कहीं मङ्गलके लिए और कहीं अमङ्गलके लिए सब सन्धियोंमें होते हैं । काव्यकर्ताकी इच्छासे वारंवार भी होते हैं । किसीने कहा है कि"मुखसन्धि को आरम्भ कर चार सन्धियों में क्रमसे होते हैं ।" इसे और लोग नहीं मानते हैं । अत्यन्त उपादेय होनेसे विना नियमके ही ये सब सन्धियोंमें हो सकते हैं।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy