________________
. षष्ठः परिच्छेद
४.५
वाक्यं यथा रत्नावल्याम्-'द्वीपादन्यस्मादपि-' (पृ. ३९८ ) इत्यादि सूत्रधारेण पठिते-( नेपथ्ये ) एवमेतत् । कः सन्देहः ? द्वीपादन्यस्मादपि-' इत्यादि पठित्वा यौगन्धरायणस्य प्रवेशः ।
वाक्यार्थो यथा वेण्याम्'निर्वाणवैरदहनाः प्रशमादरीणां
. नन्दन्तु पाण्डुतनयाः सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च
स्वस्था भवन्तु कुरुराजसुताः सभृत्याः।।' वाक्यमिति । द्वीरादित्यादि वाक्यं सूत्रधारपठितं गृहीत्वा पात्रप्रवेशः योगन्धरायणरूपपात्र प्रवेशः । अयमेकप्रकारः।
वाक्याकों यथा वेण्याम्-निर्वाणति बरीणी = शंबेगां, दुर्योधनादीनाम् । प्रक्षमात् = शान्तेः, सन्धिकरणादिति शेषः । निर्वाणवरदहना: निर्वाणः ( अपगतः) वरदहनः ( शतारूपाऽग्निः ) येषो ते । तादृशाः, पाण्डुतनया: = पाण्डवाः, युधिष्ठिरादय इति भावः । माधवेन = श्रीकृष्णेन, सह = समं, नन्दन्तु - समृमा भवन्तु । रक्तप्रसाधितभुवः = रक्ता ( अनुरञ्जिता ) प्रसाधिता (अलङकृता ) भूः (भूमिः) यस्ते । एवं च क्षतविग्रहाः = क्षेतः ( भग्नः ) विग्रहः (कलहः ) पेषां ते, तादृशः; सभृत्याः साऽनुचराः, कुरुराजसुता: धतराष्ट्रपुत्रा इति भावः। स्वस्थाः - कुखिनः; भवन्तु विद्यन्ताम्. सन्धिफलं पक्षद्वय मनुभवस्विति भावः । वसन्ततिलका वृत्तम् ।
- द्वितीयाऽर्थस्तु-परीणां प्रशभात् = बिनाशात्, निर्वाणवरदहनाः, पाण्ड. तनयाः । रक्तप्रसाधितभुवः रक्तः ( रुधिरैः ) प्रसाधिता (भूषिता) भूः (भूमिः ) यः । क्षतविग्रहाः = क्षतः ( नष्टः ) विग्रहः (शरीरम् ) येषां ते। सभृत्याः = साऽनुचराः, कुरुराजसुता: = धृतराष्ट्रपुत्राः, स्वस्थाः (स्थ: स्वर्गे तिष्ठन्ति इति ) "खपरे शरि वा विसर्गलोपो वक्तव्यः” इति विसर्गलोपः, परलोकवासिनो भवन्तु ।
वाक्य जैसे रत्नाबलीमें-"दोपादन्यस्मावपि" ऐसा.सूत्रधारके पढ़नेपर-(नेपथ्यमें) यह ऐसा ही है । क्या सन्देह है ? "द्वीपादन्यस्मा" इत्यादि पढ़कर योगन्धरायण प्रविष्ट होता है।
वाक्यार्थ जैसे वेणीसंहार में
शत्रुओंके नाशसे विरोधरूप अग्निके बुझ जानेसे पाण्डवलोग माधव (श्रीकृष्णजी) के साथ आनन्दित हों । रुधिरसे भूमिको अलङ्कृत करनेवाले और नष्ट शरीरवाले धृतः राष्ट्रपुत्र ( दुर्योधन आदि ) अपने भृत्योंके साथ स्वर्गस्थ हों।