SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ५८४ साहित्यदर्पणे यथा मुद्राराक्षसे सूत्रधारः... 'ऋरग्रहः सकेतुश्चन्द्रमसम्पूर्णमण्डलमिदानीम् । अभिभवितुमिच्छति बलात-'... इत्यनन्तरम् -( पथ्ये।) : आः, क एष मयि जीवति चन्द्रगुप्तमभिभवितुमिच्छति ।' इति । अत्रान्यार्थवन्त्यपि पदानि हृदयस्थार्थागत्या अर्थान्तरे संक्रमय्य पात्रप्रवेशः। सूत्रधारस्य वाक्यं वा समादायाथमस्य वा। 'भवेत्पात्रप्रवेशश्चेत्कथोद्घातः स उच्यते ॥ ३५॥ . यथा मुद्रारामसे = तन्नामके नाटके, सूत्रधार:-रग्रह इति । क्रूरग्रहः = कठोरग्रहः, अनिष्टफलप्रद इति भावः। स: = प्रसिद्धः, केतुः = एकशरीरत्वेन भेदाsभावात राहुरिति भावः । पूर्णमण्डलं = षोडशकलोपेतं चन्द्र = चन्द्रमसम्, इदानीम् अधुना, बलात्-बलमाश्रित्य, ल्यवलोपे पञ्चमी, अभिभवितुम्-प्रसितुम्, इच्छति = कामयते । श्लिष्टाऽर्थस्तु --क्रूरग्रहः = क्रूरः ( कठोर: ) ग्रहः ( आग्रहः चन्द्रगुप्ताऽभिभवरूपः ) यस्य सः। सः, केतुः = 'नामैकदेशे नामग्रहणम्" इति नयेन मलयो तुरित्यर्थः । असंपूर्णमण्डलम् अस्याधीनराज्यमण्डलम्, अचिरप्राप्ताऽधिकारस्वेनेति भावः । चन्द्र-चन्द्रगुप्तम्, इदानीम् अधुना, बलात, अभिवितु-पराभवितुम् इच्छति । नन्तरमिति-जीवति = प्राणान् धारयति सति । अत्र = सूत्रधारोक्तो, अन्याऽर्थवन्ति अपि-अर्थान्तरवन्ति अपि, पदानि-राहुचन्द्रादीनि इति भावः । हृदयस्थाऽर्थागत्या - हृदयस्थान (चित्तस्थितानाम = मलयकेतुचन्द्रगुप्तादिरूपाणाम, अर्थाना = पदार्थानाम् ) अगत्या (अबोधेन ), अर्थान्तरे = भिन्नार्थ, वक्तुभिप्रेतादिति शेषः । संक्रमय्य सञ्चाय, पात्रप्रवेशः चाणक्यप्रवेशः । . ___ कयोद्घातं लक्षयति-सूत्रधारस्येति । सूत्रधारस्य, वाक्यं = पदसमूहम, "अस्य = सूत्रधारस्य, अर्थम् = अभिधेयं वा, समादाय = गृहीत्वा, पात्रप्रवेशो भवेच्वेद, स कयोद्घातः, उच्यते = अभिधीयते ॥ ३५॥ . . जैसे मुद्राराक्षसमें सूत्रधार क्रूर ग्रह वह केतु इस समय पूर्ण मण्डलवाले चन्द्रको, जबर्दस्तीसे अभिभूत करनेकी इच्छा करता है। इसके बाद-( नेपथ्यमें ) ओह ! यह कौन मेरे जीते रहनेपर चन्द्रगुप्तको अभिभूत करनेकी इच्छा करता है ? यहांपर अन्य अर्थवाले पदोंको हृदयस्थ अर्थगतिसे दूसरे अर्थ में संक्रमण कराकर पात्रका प्रवेश है । जैसे-केतु-मलयकेतु,असंपूर्णमण्डलं चन्द्रम्-असंपूर्णमण्डल चन्द्रगुप्तको । सुत्रधारके वाक्य वा उसके अर्थको लेकर पात्रका प्रवेश हो तो उसे "कयोद्धाव" ' कहते हैं ।। ३५ ॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy