SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ .. षष्ठः परिच्छेदः बीजं यथा रत्नावल्याम्द्वीपादन्यस्मादपि मध्यादपि जलनिधेदिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥ अत्र हि समुद्रे प्रवहणभङ्गमग्नोस्थिताया रत्नावल्या अनुकूलदेव. लालितो वत्सराजगृहप्रवेशो यौगन्धरायणव्यापारमारभ्य रत्नावलीप्राप्तौ बीजम् । मुख-श्लेषादिना प्रस्तुतवृत्तान्तप्रतिपादको वाग्विशेषः । यथाआसादितप्रकटनिर्मलचन्द्रहासः प्राप्तः शरत्समय एष विशुद्धकान्तिः। अत्र संपूर्णमुदात्तराघवनाटकेतिवृत्तं स्थापकेन समासतः सूचितम् । बीजं थथा रत्नावल्यां नाटिकायाम्-द्वीपादिति । अभिमुखीभूतः= संमुखीभूतः; अनुकूल इति भावः । विधिः = भाग्यम्, अन्यस्मात् मपि = अपरस्मात् अपि, द्वीपात् = अन्तरीपात्, जलनिधेः = समुद्रस्य; मध्यात् अपि = अन्तरात् अपि, दिशः= काष्ठायाः, अन्तात् अपि = अन्त्यात् अपि, अभिमतम्-अभीष्टं वस्त, झटिति शीघ्रम, आनीय = प्रापय्य, घटयति = संयोजयति । आर्या वृत्तम् ॥ प्रति। प्रवहणभङ्गमग्नोत्थिताया: = प्रवहणस्य ( नौकायाः) मङ्गः (भेदः), तेन प्राक् मग्ना (बुडिता ) पश्चात् उत्थिता ( उत्तीर्णा ), तस्याः, रलावल्याः = तन्नापकनाटिकानायिकायाः, अनुकलंदैवलालितः = अनुगुणभाग्यप्रसाधितः; वत्सराजगृहप्रवेशः = 'उदयनभूपभवनप्रवेशः, योगन्धरायणव्यापारम्-उदयनमन्त्रिकर्म, आरभ्य-उपक्रम्य, रत्नावलीप्राप्तो= उदयनकर्तृकरत्नावल्यासादने, बीजं = हेतुः । मुखं लक्षयति-श्लेषादिना = श्लेषप्रभृतिनाऽलङ्कारेण, आदिपदेन समासोक्स्य प्रस्तुतप्रशंसाऽऽदेर्गहणम्, प्रस्तुतवृत्तान्तप्रतिपादकः = प्रकृतोदन्तसूचका, वाग्विशेषः । उदाहरति-प्रासादितेति । आसादितप्रकटनिमलचन्द्रहास: विशुद्ध कान्तिः संभूतबन्धु. जीवः एष शरत्समयः, गाढतमसम् उग्रं घनकालम् उत्खाय आसादिक्षप्रकटनिर्मलचन्द्रहासः विशुद्धकान्तिः संभृतबन्धुजीवः रामः गाढतमसम् उग्रं घनकालं दशाऽऽस्यम् उत्खाय इव प्राप्तः इत्यन्वयः। . आसादितप्रकटनिर्मलचन्द्रहासः = आसादितः (प्राप्तः) प्रकटः ( व्यक्तः) बीज से रत्नावलीमें-अनुकूल भाग्य दूसरे द्वीपसे, समुद्रके मध्यसे दिशाके अन्तसे भी अभीष्ट पदार्थको झटपट छाकर मिला देता है। प्रत्रेति । यहाँपर जहाज टूटनेसे समुद्रमें डूबकर भी उतरी हुई रत्नावलीका अनुकूल भाग्यसे लालित वत्सराज: (उदयन ) के प्रासादमें प्रवेश योगन्धरायणके उद्योगको आरम्भ कर रत्नावलीकी प्राप्ति में बीज (सन्धि ) है। श्लेष आदिसे प्रस्तुत वृत्तान्तका प्रतिपादन करनेवाले वचन विशेषको "मुख" कहते हैं। जैसे-दृढ तमोगुणवाले, भयङ्कर और मेघके समान कृष्णवर्ण रावणको
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy