SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ षष्ठः परिच्छेदः ____३९५ देवद्विजनृपादीनां तस्मानान्दीति संज्ञिता ।। २४ ॥ मङ्गल्यशङ्खचन्द्राजकोककैरवर्शसिनी .. । पयुक्ता द्वादशभिरष्टाभिर्वा पदैरुत ॥ २५ ॥ अष्टपदा यया अनर्घराघवे-'निष्प्रत्यूहम्' इत्यादि । द्वादशपदा यथा मम तातपादानां पुष्पमालायाम् शिरसि धृतसुरापगे स्मरारावरुणमुखेन्दुरुचिगिरीन्द्रपुत्री। अथ.चरणयुगानते स्वकान्ते स्मितसरसा भवतोऽस्तु भूतिहेतुः॥ . एवमन्यत्र । प्रयुज्यते = अनुष्ठीयते, तस्मात् = हेतोः, नान्दी इति संज्ञिता जासंज्ञा, अस्तीति शेषः ।। २४ ॥ नान्थाः प्रकारानाह-मङगल्यत्यादिः। मङ्गल्यशचन्द्राऽजकोककौरवशंसिनी-मङ्गलप्रयोजनकम्बुविधुकमल चक्रवाककुमुदसूचि का, नान्दीति शेषः, द्वादशभिः द्वादशसंख्यकः, उत वा अथवा, अष्टाभिः अष्टसंख्यकः, पदैः = शब्दः । युक्ता सहिता, भवेदिति शेषः ॥ २५। तातपादानां = पितृचरणानाम्-शिरसीति । गिरसि= मूर्डिन, धृतसुरापगेधृता (धारिता) सुराऽऽपगा (गङ्गा ) येन, तस्मिन्, गङ्गाधारक इति भावः, तादृशे, स्मराऽरो = कामशत्रो, शङ्करे इति भावः । अरुणमुखेन्दुः = रक्तमुखचन्द्रा, पतिशिरसि सपल्याः स्थितत्वादिति भावः । अथ = अनन्तरं, स्वकोपदर्शनाऽनन्तरमिति भावः, स्वकान्ते - निज मर्तरि, चरणयुगानते = पादयुग्मप्रणते सति, स्मितसरसा = स्मितेन (मन्दहास्येन) सरसा (साऽनुरागा), गिरोन्द्रपुत्री = गिरीन्द्रस्य (पर्वतराजस्य हिमालयस्य ) पुत्री (दुहिता, पार्वतीति भावः) । भवतः तव, भूतिहेतुः-ऐश्वर्यकारणम्, अस्तु = भवतु ।। पुष्पितामा वृत्तम् । स्तुति की जाती है, अतः इसे “नान्दी" कहते हैं ॥ २४ ॥ इसमें मालिक पदार्थ, शङ्ख, चन्द्र, कमल, चक्रवाक (चकवा) और कुमुदका वर्णन होता है । इसमें बारह या आठ पद होते हैं । २५॥ बष्टपदा नान्दी जैसे अनर्घराघवमें "निष्प्रत्यूहम्" इत्यादि । द्वादशपदा नान्दी जैसे चन्द्रशेखर महापात्रकी पुष्पमालामें शिरसीति । शिवजीके शिरमें गङ्गाजीको धारण करनेपर कोरसे पार्वतीका मुख लाल हो गया, अनन्तर शिवजीके अपने चरणोंपर सकनेपर मन्दहास्यसे अनुरागवाली पार्वती आपके ऐश्वर्यकी हेतु हों ।। • ऐसे ही अन्यत्र जानना चाहिए ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy