________________
षष्ठः परिच्छेद
३९
तत्र
सर्वेषां प्रकरणादिरूपकाणां नाटिकाद्युपरूपकाणां च ।
नाटक ख्यातवृत्तं स्यात् पञ्चसाधसमन्वितम् । विलासर्धादिगुणवद्युक्तं नानाविभूतिभिः ॥ ७॥ सुखदुःखसमुद्भूति · नानारसनिरन्तरम् । पश्चादिका देशपरास्तत्राङ्काः परिकीर्तिताः ॥८॥ प्रख्यातवंशो राजर्षिीरोदासः ‘प्रतापवान् ।
दिव्योऽथ दिव्यादिव्यो वा गुणवान्नायको मतः ॥ ९ ॥ . . नाटकं लक्षयति-नाटकमिति । ख्यातवृत्तं = ख्यातम् प्रसिद्धम्, इतिहासपुराणादिष्विति शेषः ) वृत्तं ( चरित्रम् ) यस्य तत् । पञ्चसन्धिसमन्वितं = पञ्चभिः सन्धिभिः ( मुखप्रतिमुखादिभिः ) समन्वितम् ( युक्तम् )। विलासर्यादिगुणवत् = "धीरा दृष्टिगतिश्चित्रा विलासे सस्मितं वचः" इत्युक्तलक्षणो नायकगुणविशेषो विलासः । ऋद्धिः ( अभ्युदयः ) इत्यादिगुणवत् । नानाविभूतिभिः = बहुविधश्वर्यः । युक्तम् = उपेतम्, महासहायमिति भावः ।। ७॥
सुखदुःखसमुद्भूति:-सुखदुःखयोः समुद्भूतिः (समुद्भवः) यस्मिस्तत्, सुखदुःख. समुद्भवच रामपुधिष्ठिरादिचरित्रेषु अभिव्यक्तः । नानारसनिरन्तरं नानारसः (शृङ्गारादिभिः) निरन्तरम् (अव्यवहितम्) । सर्व नाटकविशेषणम् । तत्र-नाटके, पञ्चदिका:पञ्च आदयो येषां ते । दशपराः दशसु पराः ( तत्सराः)॥८॥
नाटके नायकसामान्यस्वरूपमाह-प्रख्यातवंश इति। राजर्षिः = राजा ऋषिरिव, जनकादिरिति भावः । धीरोदात्तः="अविकत्यन०" ( ३-३२) इत्यादि: लक्षणलक्षितः। प्रतापवान् = प्रतापसम्पन्नः । गुणवान् = दयादाक्षिण्यादिगुणयुक्तः । कभिन्नायकः, दिव्यः श्रीकृष्णादिः, कश्चित् अदिव्यः मनुष्यः, कश्चिच्च दिव्याऽदिव्यः= दिव्यभाऽसौ अदिव्यः, दिव्योऽप्यात्मनि नराऽभिमानी यथा श्रीरामचन्द्रः ॥ ९॥
__उनमें-नाटकका चरित्र इतिहास और पुराण आदिमें प्रसिद्ध होना चाहिए । यह मुख आदि पांच सन्धियोंसे और अनेक विभूतियोंसे युक्त ( महासहायसंपन्न) ॥ ७॥ . सुख और दुःख को उत्पत्तिवाला, जैसे कि राम और युधिष्ठिर आदिके वृत्तान्तोंमें स्पष्ट है । शृङ्गार आदि अनेक रसोंसे अव्यवहित होता है। उसमें पांचसे लेकर दश बकु तक कहे गये हैं।। ८ ॥ ___ · नायक-प्रख्यात वंशका राजर्षि जैसे दुष्यन्त आदि धीरोदात्त और प्रतापी, दिव्य से श्रीकृष्ण आदि और दिव्याऽदिव्य अर्थात् जो दिव्य होकर भो. अपनेमें नरत्वका अभिमान करनेवाले जैसे राम आदि और गुणवान होना चाहिए ॥९॥