________________
पञ्चमः परिच्छेदः
३८५
'दुर्गा घित-' इत्यादी ( ७१ पृ० ) च द्वितीयार्थी नास्त्येव - इति यदुक्तं महिमभट्टेन तदनुभवसिद्धमपलपतो गजनिमीलिकैव ।
तदेवमनुभवसिद्धस्य तत्तद्रसादिलक्षणार्थस्याशक्यापलापतया तत्तच्छदाद्यन्वयव्यतिरेकानुविधायितया चानुमानादिप्रमाणावेद्यतया चाभिघादिवृत्तित्रयाबोध्यतया च तुरीया वृत्तिरुपास्यैवेति सिद्धम् । इयं च व्याप्त्याद्यनुसन्धानं विनापि भवतीत्यखिलं निर्मलम् ।
अयं भाव: । "सोऽयं देवदत्तः" इत्याकारिकायां प्रत्यभिज्ञायां - "सः" इत्यत्रांऽशे स्मृतिः, "अयम्" इत्यत्रांऽशे प्रत्यक्षं तथा चेयं प्रत्यभिज्ञाऽपि संस्कारजन्या, परं संस्कारमात्र जन्यत्वाऽभावेन नेयं स्मृतिः, अतोऽत्र हेत्वाभासत्वमिति भावः ।
अभिधामूलव्यञ्जनामनङ्गीकुर्वतो महिमभट्टस्य मतं दूषयति - "दुर्गालङ्घित इत्यादी= स्थले, द्वितीयाऽर्थः = अप्राकरणिकाऽर्थ:, उमावल्लभ ( महेश ) रूपव्यङ्ग्यार्थं इति भाव:, नास्त्येव इति यदुक्तं महिमभट्टेन तत् अनुभवसिद्धम्, अपलपतः = 1 निह्नकमानस्य, अनङ्गीकुर्वत इति भावः तस्येति शेषः । गजनिमीलिका एव = उपेक्षा एव, पर्यालोचनं विनेति शेषः ।
व्यञ्जनायाः समर्थनमुपसंहरति-तदेवमिति । तत् = तस्मात्कारणात्, एवं = पूर्वोक्तप्रकारेण, अनुभवसिद्धस्य = अनुभूति निष्पन्नस्य तत्तद्रसादिलक्षणार्थस्य तत्तद्रसभावादिस्वरूपाऽर्थस्य, अशक्याऽपलापतया = अपलापं कर्तुमशक्यतया, तत्तच्छन्दाद्यन्वयतिरेकानुविधायितया = तत्तच्छन्दादीनां ( " शून्यं वासगृहम्" इत्यादि काव्यशब्दानाम् अर्थप्रस्तावादीनां च ) अन्वयव्यतिरेकानुविधायितया ( अन्वयव्यतिरेकव्याप्त्यनुसारितया ), तादृशशब्दसत्वे रसादिव्यङ्गयाऽसत्त्वं तादृशशब्दाऽभावे रसादिव्यङ्ग्यार्थाऽभावः इति नियमेन, अभिधाऽऽदिवृन्मित्रयाऽबोध्यंतया = अभिघादिकं यत् वृत्तित्रयम् ( अभिधालक्षणातात्पर्यरूपम् ) तेन अबोध्यतया ( अज्ञेयत्वेन ), इत्यादिकारणकलापेन तुरीया = चतुर्थी, व्यञ्जनारूपेति भावः । उपास्या एव = सेवनीया एव, अङ्गीकरणीया एवेति सिद्धम् = निष्पन्नम् । इयं = व्यञ्जना, व्याध्या"दुर्गालङ्घित०" इत्यादि पद्य में महिमभट्टने दूसरा ( अप्राकरणिक ) उमावल्लभ ( महेश ) रूप अर्थ प्रतीत ही नहीं होता है ऐसा जो कहा है वह गजनिमोलिका ( उपेक्षा ) ही है ।
"
व्यञ्जनाके समर्थनका उपसंहार करते हैं- इसप्रकार अनुभवसे सिद्ध उन उन रस, भाव, आदि स्वरूपवाले पदार्थका अपलाप नहीं कर सकनेसे उन उन शब्द after अन्वय और व्यतिरेक व्याप्तिका अनुसरण करनेसे, अनुमान आदि प्रमाणसे अज्ञेय होनेसे और अभिधा, लक्षणा और तात्पर्य वृत्तिसे अबोध्य होनेसे भी चौथी ( व्यञ्जना )
२५ सा०