________________
१६६
साहित्यदर्पणे तत्किनामिकेयं वृत्तिरित्युच्यते
सा चेयं व्यञ्जना नाम वृचिरित्युच्यते बुधैः । रसव्यक्ती पुनत्ति रसनाख्यां परे विदुः ॥ ५ ॥ एतच विविच्योकं रसनिरूपणप्रस्ताव इति सर्वमवदातम् । इति श्रीमन्नारायणचरणारविन्दमधुव्रतसाहित्यार्णवकर्णधार-ध्वनिप्रस्थापन • परमाचार्य-कविसूक्तिरनाकराऽष्टादशभाषावारविलासिनीभुजङ्गसानिध. विग्रहिक-महापात्र-श्रीविश्वनाथकविराजंकृती साहित्यदर्पणे
व्यञ्जनाव्यापारनिरूपणो नाम पञ्चमः परिन्छेदः ।
अनुसन्धान विनाऽपि = व्याप्त्यादेः ( साध्यसाधनयोः साहचर्यनियमादेः) अनुसन्धान (मानं ) विनाऽपि भवतीति अखिलं निर्मलम् ।
किनामिकेयं वृत्तिरिति आकाङ्क्षा समाधत्ते-सा चेति । सा च = तादशी प, इयं = सम्प्रत्येव प्रतिपादिता वृत्तिः = शक्तिः, व्यजना नाम = नाम्ना व्यञ्जना इति, बुधः = आलङ्कारिकविद्धिः । उच्यते = अभिधीयते ।
रसव्यक्तावस्या नामान्तरं प्रतिपादयति-रक्तव्यक्ताविति। रसव्यक्ती रसभावादिप्रतिपादने, रसनाऽख्या - रसनाऽभिधेयां, पत्ति = व्यापार, परे = अन्ये, अभिनवगुप्ताचार्यऽवलम्बिनः, विदुः जानन्ति । एतच्च-सिद्धान्तकदम्बकम्, विविच्य= विवेचनं कृत्वा, रसनिरूपणप्रस्तावे = रसप्रतिपादनाऽवसरे, तृतीयपरिच्छेदे, उक्तम् = अपिहितम्, इति सर्व = सकलम्, अवदातम् = उज्ज्वलम् अनयमिति भावः ॥ इति श्रीशेषराजशर्मप्रणीतायां चन्द्रकलाऽभिख्यायां साहित्यदर्पण.
___टीकायां पञ्चमः परिच्छेदः ॥
वृत्ति,माननी ही पड़ती है यह वात सिद्ध हो गई। यह (ब्यञ्जना ) ब्याप्ति. आदिके अनुसन्धारके विना भी हो जाती है यह सब विषय स्पष्ट हो गया।
"तब इस वृत्तिका नाम है"? इस प्रश्नका उत्तर देते हैं-विद्वज्जन इस वृत्तिको व्यञ्जना कहते हैं। अन्य विद्वान् ( अभिनवगुप्त आचार्यके अनुयायी) रसके प्रतिपादनमें रसन नामकी वृत्तिको जानते हैं ॥ ५॥
इन सब बातोंकी विवेचना करके रसनिरूपणके प्रस्ताव में कहा हैं, इसप्रकार सब कुछ स्पष्ट है।
साहित्यदर्पणके अनुवादमें पञ्चम परिच्छेद समाप्त हुआ।