________________
पञ्चमः परिच्छेदः
३६९
इति सखीतत्कान्तविषयत्वेन विषयभेदः । तस्मान्नाभिधेय एव व्यङग्यः। तथा
प्रागसत्त्वाद्रमादेनों बोधिके लक्षणाभिधे ।
. किश्च मुख्यार्थवाधस्य विरहादपि लक्षणा ॥ ३ ॥ हे सभ्रमरपद्माघ्रायिणि = हे समधुपकमलाघ्राणगीले !, सभ्रमर ( भ्रमरसहितम् ) यत् पद्म ( कमलम् ) तत् आजिघ्रतीति तत्सम्बुद्धौ। हे वारितवामे = निषिद्धे विषयेऽपि हे प्रतिकलगीले ! वारितेवामा तत्सम्बुद्धो । सभ्रमरं कमलं मा जि ति मया निवरिता त्वं तादशं कमलमाघ्रातवतीति भावः, अतस्त्वत्पतिस्त्वच्चरित्रे सन्दिहानोऽस्ति, तत. इदानीं, सहस्व = पति कृतं कोपं मर्षयेति भावः । गाथा वृत्तम् ।।
अत्र विष्यभेदं विवृणोनि--इतीति । इति = अस्मिन् पद्य, सखीतत्कान्त. विषयत्वेन = सखीविषयत्वेन तत्कान्तविषयत्वेन च विषयभेदः । अत्र वाच्याऽर्थबोधे विषयभूता सखी, भ्रमरेण अस्या अधरो दष्टो न पुनः पुरुषाऽन्तरेणेति व्यङ्गयाऽर्थबोधे विषय भूतो नायक इति विषयभेदः । अत्रोमाभ्यामेव नायिकानायकाभ्यां व्यङ्गयाऽर्थो बुद्ध इति नाऽत्र बोभेद इत्यवधेयम् । निगमयति--अस्मादिति । तस्मात् = पूर्वोक्ताद् बोद्मादिभेदात्, अभिधेय:- वाच्यार्थः, नव व्यङ्गयः, इत्थमुभयोर्भेदसत्त्वादिति भावः।।२।। . लक्षणाऽभिधयो रसादेोधनाऽक्षमत्वं प्रतिपादयति- प्रागसत्वादिति । रसादेः = रसभावादेव्यङ्गयस्य, प्राक् = प्रथमम्, बोधात्पूर्वमिति भावः । असत्त्वात् = अविद्यमानत्वात्, लक्षणाऽभिधे = लक्षणा अभिधा च, नो बोधिके = न प्रतिपादिके । प्रयाणामपि व्यङ्गयानां मुख्यार्थबोधविरहादपि न लक्षणा बोधिका । प्रमाणान्तरसिद्धमेव धस्तु लक्षणाऽभिधे बोधयत इति भावः ।
लक्षणाया रसादेर्बोधनाऽक्षमत्वे हेत्वन्तरमुपन्यस्यति--किचेति । मुख्याऽर्थ. वाधस्य = वाच्याऽर्थप्रतिबन्धस्य, विरहात अपि = अभावात् अपि, लक्षणा = भक्तिः, नो बोधिकेति शेषः । मुख्यार्थबाध एव लक्षणा प्रवर्तते मुख्याऽर्थवाधाभावात् लक्षणा रसादि नो बोधयतीति भावः ॥ क्रोध न होगा? भ्रमरयुक्त कमलको सूघनेवालो ! निषिद्ध विषय में भी प्रतिकूल आचरण करनेवाली ! अब तुम पति जो करें सहन कर लो। यहाँपर थथाश्रुत वाच्य अर्थमें विषयभूत सखी है और "भौंरेने इसके अधरको काटा न कि परपुरुषने" इस व्यङ्गय अर्थके बोधमें विषय नायक है, इस प्रकार वाच्य अर्थमें और व्यङ्गय अर्थमें विषयोंका भेद होता है, अतः अभिधेय ( वाच्य अर्थ ) ही व्यङ्गय अर्थ नहीं होता है । अभिधा और लक्षणाकी रस आदिके प्रतिपादन में असामर्थ्य दिखाते हैं--रस भाव आदि व्यङ्गयके पहले न होनेसे लक्षणा और अमिधा उनका बोध करनेवाली नहीं हो सकती हैं । इसी तरह मुख्य अर्थका बाध न होनेसे लक्षणा भी रस बादि व्यङ्गय अर्थका बोध नहीं करा सकती है ॥ ३ ॥
२४ सा