SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ पञ्चमः परिच्छेदः 'गतोऽस्तमर्क:' इत्यादौ च वाच्योऽर्थ एक एव प्रतीयते । व्यङ्ग्यस्तु तद्वद्भ्रादिभेदात् कचित् 'कान्तमभिसर' इति, 'गावो निरुध्यन्ताम्' इति, 'नायकस्यायमागमनावसरः' इति, 'संतापोऽधुना नास्ति' इत्यादिरूपेणानेक इति संख्याभेदः । तथाविधप्रतिभानैर्मल्या वाच्यार्थः शब्दोच्चारणमात्रेण वेद्यः, एष तु दिनेति निमित्तभेदः । प्रतीतिमात्रकरणाश्चमत्कारकरणाश्च कार्यभेदः । संख्याभेदं प्रदर्शयति – "गत" इति । "गतोऽस्तमर्कः" इत्यादी "अर्कोऽस्तं गतः” इति अर्ककर्तृकमस्तपर्यंत गमनम्” इति वाच्योऽर्थ:, एक एव प्रतीयते = ज्ञायते । व्यङ्ग्यस्तु तद्बोधादिभेदात् = तस्य ( वाक्यस्य) बोद्घादिभेदात् इति (प्रतिपाद्यादिभेदात् ), क्वचित् कान्तं प्रियम् अभिसरं इति अभिसारिकायां बोद्धयाम्, "गावो निरुध्यन्ताम् " सत्वरणार्थं वियुक्ताः गावो निरुध्यन्ताम् = निवार्यताम् इति गोपाले बोर, " नायकस्याऽयमागमनाऽवसर " इति प्रोषितभर्तृकायां बोद्धयाम् "सन्तापोऽघुना नाऽस्ति" इति निदाघपीडिते बोद्धरि । = ३६७ 'निमित्तभेदं दर्शयति- "वाच्याऽर्थ " इति । वाच्याऽर्थः शब्दोच्चारणमात्रेण; वेद्यः - ज्ञेयः । एवं तु = व्यङ्ग्यार्थस्तु तथाविधप्रति मानल्यादिना - तादृशबुद्धिनिर्मलत्वादिना, इति निमित्तभेदः - कारणभेदः । कार्यभेदं दर्शयति - प्रतोतिमात्रेति । वाच्येऽर्थे प्रतीतिमात्रकरणात् = ज्ञानमात्र विधानात् मात्रपदेन चमत्कारव्यवच्छेदः । व्यङ्ग्येऽर्थे ज्ञानविधानेन समं चमत्कारकरणाच्च, कार्यभेदः = फलभेदः । प्रतीतिभेदं . "गवोsस्तमर्क" अर्थात् सूर्य अस्त पर्वतको चले गये हैं इत्यादिमें वाच्य अर्थ तो एकमात्र प्रतीत होता है परन्तु व्यङ्ग्य अर्थ तो उस वाक्यको सुननेवालोंके भेद से कहीं ! पर (अभिसारिका में ) "कान्त के पास अभिसार करो" कहींपर ( चरबा हेंमें ) "चरती 'हुई गायोंको रोको" कहींपर ( प्रोषितभर्तृका में ) "नायकका यह आनेका अवसर है" (दिनकी गरमी से पीडितजनमें ) अब सन्ताप नहीं है इत्यादि रूपसे व्यङ्ग्य अर्थ अनेक प्रतीत होते हैं अतः संख्याभेदसे वाच्य अर्थसे व्यङ्ग्य अर्थ भिन्न होता है । वाच्य अर्थ शब्दों के उच्चारणमात्र से जाना जाता है, व्यङ्ग्य अर्थ तो वैसी प्रतिभा की निर्मलता आदि कारणसे जाना जाता है इसप्रकार निमित्तभेदके कारण व्यङ्ग्य वाच्यसे भिन्न होता है । वाच्य अर्थमें केवल पदार्थ की प्रतीति कार्य होता है परन्तु व्यङ्ग्य अर्थमें चमत्कारकी प्रतीतिरूप कार्य होता है अतः वाच्य और व्यङ्गय अर्थ कार्यभेदके कारण भिन्न भिन्न होते हैं ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy