SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे इत्यादावपि हर्षशोकादीनामपि न वाच्यत्वम् । यत्पुनरुक्तं 'पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम् , अतत्परत्वेऽनुपादेयत्वादुन्मत्तवाक्यवत् । ततश्च काव्यशब्दानां निरतिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः . प्रवृत्त्यौपयिकप्रयोजनानुपलब्धेनिरतिशयसुखास्वाद एव कार्यत्वेनाऽवधार्यते । 'यत्परः शब्दः स शब्दार्थः' इति पाच्यत्वम् । अयं भावः । "ब्राह्मण ! पुत्रस्ते जातः” इत्यत्र मुखप्रसादरूपेण लिङ्गेन अनुमितस्य हर्षग्य यथा अनुमेयत्वं तथैव "कन्या ते गर्भिणी" इत्यत्र व्यभिचाराशङ्कया मुखमालिन्येनाऽनुमितस्य शोकस्याऽपि न वाच्यत्वम् । अतो हदियो यथा न वाच्या. स्तथैव व्यङ्गयाऽर्था अपि अभिधाव्यापारेण न वाच्याः। प्रभाकरमीमांसकमतं खण्डयति- यत्पुनरुक्तमिति। पौरुषेयं = पुरुषकर्तृक लोकिकवाक्यं “गामानये" त्यादिरूपम् । अपौरुषेयं = पुरुषकर्तृकभिन्न वैदिकवाक्यं "ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्यादिरूपम् । इत्थं च सर्वमपि वाक्यं =पदसमूहरूपं, कार्यपरम्, अतत्परत्वे = कार्यपरत्वाऽभावे, अनुपादेयत्वात = अग्राह्यत्वात्, उन्मत्तवाक्यवत = उन्मत्तप्रयुक्तपदसमूहवत, ततः प्रकृते किमायातमित्यत्राह-ततश्चेति । ततश्च = तस्माद्धेतोः । काव्यशब्दानां - काव्यप्रयुक्तपदसमूहानां, निरतिशयसुखास्वादव्यतिरेकेण = निरतिशय: ( साऽतिशयः ) यः सुखास्वादः (हर्षाऽनुभूतिः ), रसादि. रूपोऽर्थ इति भावः । तद्वतिरेकेण =तं विना, प्रतिपाद्यप्रतिपादकयोः = प्रतिपाद्य; ( बोद्धव्यः, श्रोता इति भावः ) प्रतिपादकश्च ( बोधकः, वक्ता इति भावः ), तयोः, प्रवृत्यौपायकप्रयोजनान्तराऽनुपलब्धेः- प्रवृत्तेः ( काव्यश्रवणादो चेष्टायाः ) ओयिकम् (उपायरूपं, प्रयोजकमिति भावः), यत् प्रयोजनान्तरम् (अन्यत् प्रयोजनम् उद्देश्यविषयीभूतम् ), तस्य अनुपलब्धेः ( अप्राप्तेहेतोः ) निरतिशयसुखास्वाद एव-रसाद्यनुभव एव वाला लक्ष्य अर्थका भी बोध अभिधासे हो जायगा। इसी तरह-"ब्राह्मण ! तुम्हारा पुत्र उत्पन्न हुआ कहने पर चेहरेमें प्रसन्नता झलकनेसे हर्ष और "ब्राह्मण ! तुम्हारी कन्या गभिणी" हई कहने पर चेहरे में झलकने वाली मलिनतासे शोक भी क्यों नहीं वाच्य मानते हो ? अतः जैसे यहां हर्ष और शोक वाच्य नहीं उसी तरह रस आदि व्यङ्गय अर्थ भी वाच्य नहीं हो सकते हैं इस कारण दीर्घदीर्घतर अभिधा व्यापारको माननेवाले भट्टलोग्लटकी बात कट गई। अन्विताऽभिधानवादी प्रभाकर मीमांसकके मतका खण्डन करते हैं। जो कि कहते हैं चाहे पौरषेय ( पुरुषकर्तृक अर्थात् लौकिक ) वा अपौरुषेय ( वैदिक ) वाक्य हो सभी वाक्य कार्यपरक होते हैं, कार्यपरक नहीं मानेंगे तो उन्मत्त पुरुषके वाक्य के समान वे. अग्राह्य होंगे इस कारणसे काव्यशब्दोंका भी निरतिशय ( बेहद ) हर्षके आस्वादके बिना श्रोता और वक्ताको काव्यश्रवणकी चेष्टामें उपायरूप दूसरे प्रयोजनकी प्राप्ति न होनेसे निरतिशय (बेहद ) हर्षका आस्वाद ही कार्यके रूपमें निश्रित होता है, क्योंकि
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy