________________
.. साहित्यदर्पये
-
तदाहुः
'शब्दचित्रं वाच्यचित्रमव्यङ्गय त्वरं स्मृतम् ।' इति ।
तन्न, यदि हि अव्यङ्गथत्वेन व्यङ्गयाभावस्तदा तस्य काव्यत्वमपि नास्तीति प्रागेवोक्तम् । ईषव्यग्यत्वमिति चेत्, किं नामेषव्यङ्ग्यत्वम् ? भास्वाद्यव्यङ्ग्यत्वम् , अनास्वाद्यव्यग्यत्वं वा ? आये प्राचीनभेदयोरेवान्तःपातः । द्वितीये त्वकाव्यत्वम् । यदि चास्वाद्यत्वं तदाऽक्षुद्रत्वमेव क्षुद्रतायामनास्वाद्यत्वात् ।
काध्यं त्रिविषम-उत्तम, मध्यमम्, अधमं चेति । तत्र व्यङ्ग्यं काव्यमुतमम्, गुणीभूतव्यङ्गय मध्यमम्, अव्यङ्गयम्, अवरम् = अधम, तस्य भेदद्वयं-शब्द. चित्रवाच्यचित्र चेति । तन्मतं दूषयति-तस्येति । अव्यङ्गयत्वेन - व्यङ्गयाऽयंरहितत्वेन, व्यङ्गघाऽभावो यदि = रसादिव्यङ्ग्याऽर्थाऽभावश्च द, तदा - तहि, तस्य - भव्यङ्ग पस्य, काव्यत्वम् अपि - कास्यव्यपदेशविषयत्वम् अपि, नाऽस्तीति, प्रागेवअक्मपरिच्छेद एव उक्तम् ।
पुनराशय सण्डपति-अव्यङ्गयमित्यत्र नम् ईषदर्थे वर्तते। ततः बव्यङ्गपम्, इत्यस्य अर्थ ईषद्व्यङ्ग्यम् इति चेत् तत्र पुनः प्रश्न:-किं नामेषद्वघनघस्वमी बास्वायव्यङ्गयत्वं = यत्र व्यङ्गपस्याऽऽस्वादो भवति, अथवा अनास्वाद्यव्यङ्ग्यत्वम् - पत्र व्यङ्गस्य आस्वादो न भवति ) आद्य = आस्वाद्यव्यङ्ग्यत्वे, प्राचीनभेदयोः = ध्यङ्ग गुणीभूतव्यङ्ग्ये चेति द्वयोः पूर्वोक्तभेदयोरेव, अन्तःपातः = अन्तर्भावः । द्वितीये अनास्वाद्यव्यङ्ग्यत्वे, तु अकाव्यरवं-काव्यत्वाऽभावः । यदि च आस्वाद्यत्वम्आस्वाद्यव्यङ्गयत्वम्, तदा अक्षुद्रःवम् एव = अनवरत्वम् एव, क्षुद्रतायाम् व्यङ्गपाऽर्थरहितत्वेन अवरतायाम, अनास्वाद्यत्वात् = आस्वादविषयराहित्यात् । दो भेद होते हैं-शब्दचित्र और प्रर्थचित्र ।
___ ग्रन्यकार इस मतका खण्डन करते हैं-यह ठीक नहीं । अव्यङ्गय कहनेसे आप व्यङ्गयका अभाव कहते हैं तो वह काव्य ही नहीं है यह बात पहले ही कह चुके हैं।
यदि कहें कि 'अव्यङ्ग्य' पदमें नका अर्थ ईषत् ( थोड़ा ) है तो उसका अर्थ हुआ ईषद्वयङ्ग्य अर्थात थोड़ा व्यङ्ग्य । फिर प्रश्न करते हैं-ईषद्वयङ्गय क्या है ? मास्वाद्यव्यङ्ग्य ( व्यङ्ग्य अर्यका आस्वाद किया जानेवाला ) वा अनास्वाद्यव्यङ्ग्य ( व्यङ्ग्य अर्थका आस्वाद नहीं किया जानेवाला )। यदि पहला भेद मास्वाद्य व्यङ्ग्य मानें तो पहले के दो भेदों ( व्यङ्गय और गुणीभूतव्यङ्गय ) में ही अन्तर्भाव हो जाता है दूसरा भेद अनास्वाद्य व्यङ्गय मानें तो वह काव्य ही नहीं हो सकता है । आस्वाद्य मानें तो वह अक्षुद्र (क्षुद्र = अधमसे भिन्न ) ही हुआ । क्षुद्र