SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ३५४ साहित्यदर्पणे धत्ते रसादितात्पर्य पर्यालोचनया पुनः ॥' इति 'यत्रोन्मदानां प्रमदाजनानामभ्रंलिहः शोणमणीमयूखः । संध्याभ्रमं प्राप्नुवतामकाण्डेऽप्यनङ्गनेपथ्यविधि विधत्ते ॥' इत्यादौ रसादीनां नगरीवृत्तान्तादिवस्तुमात्रेऽङ्गत्वम्, तत्र तेषामतात्पर्यविषयत्वेऽपि तैरेव गुणीभूतः काव्यव्यवहारः । काव्यभेदः, रसादितात्पर्य पर्यालोचनया = रसादी ( रसभावादी ) यत् तात्पर्यं ( कवें प्रायः), तत्पर्यालोचनया ( तदनुसन्धानेन ), पुनः ध्वनिरूपतां ध्वनिस्वरूपता । धत्ते = प्राप्नोति । यथा " अयं स रसनोत्कर्षी"त्यादी शृङ्गारस्य गुणीभावेऽपि तं भावमव म्य मध्यमकाव्यव्यवहारो न कर्तव्यः, किन्तु अङ्गिनं तत्र प्रधानरसं करणमाश्रित्य काव्यव्यवहार एव कर्तव्य इति भावः । स्थले तु स्थिति । यंत्र = एव सिद्धान्तस्याऽनवकाशस्थलं निर्दिशति - यत्र अत्रेति । कश्चित्कविः कांचिन्नगरीं वर्णयति । यत्र नगर्याम्, अभ्रंलिहः - अनं लेढोति, "वह्नाऽभ्रे लिहः" इति खण् । मेवस्पर्शी, शोजमणीक्यूखः - शोणमणी (पद्मरागाणाम् ) मयूखः ( किरणः ) । अकाण्डे - अनवसरे, सन्ध्याभ्रमं - सायम्काल प्रान्ति, प्राप्नुवता = लभमानानां पद्मरागकिरणप्रसरणादिति भावः । उन्मदानाम् = उद्गतमदानां, प्रमदाजनानां = ललनाजनानाम्, अनङ्गनेपथ्यविधि = कामसंभोग वेशविधानं, विधत्ते - सम्पादयति । अत्र भ्रान्तिमदलङ्कारः । उपजातिवृत्तम् । तथ्यं विवृणोति - इस्पादाविति । इत्यादी स्थले, रसादीनां = शृङ्गाराचीनाम् । नगरीवृतान्तादिवस्तु मात्र = केवलनगर्यु दन्त रूपवस्तुविषये । अङ्गत्वं = पोषकत्वम् ॥ तत्र= नगरीवृत्तान्तादिवस्तुमात्रे, तेषां रसादीनाम्, अतात्पर्यविषयत्वेऽपि तात्पर्यविषयाऽ भावत्वेऽपि, गुणीभूतैः = अप्रधानः, तैरेव = रसादिभिरेव काव्यव्यवहारः = काव्यव्यपदेशः । है। जैसे कि "अयं स रसनोत्कर्षी" इत्यादि स्थलमें शृङ्गारका गौणभावसे मध्यमकाव्यका व्यवहार न कर अङ्गी करुण रसको लेकर उत्तम काव्यका ही व्यवहार करना चाहिए यह भाव है ! गुणीभूतव्यङ्गचका स्थल दिखलाते हैं- यत्र तु जहाँपर तो - जिस ..नगरी में आकाशको स्पर्श करनेवाली पद्मरागमणिकी किरण अपने प्रकाशके कारण अनवसर में ही सन्ध्याकाल हो गया ऐसी प्रान्तिको प्राप्त करनेवाली सुन्दरियोंका काम भोग करने के लिए वेशविधानका सम्पादन कर देती है ।। यत्र तु — - इत्यादि स्थलमें व्यङ्ग्य होनेवाले शृङ्गार आदि रस नगरी वर्णनरूप वस्तुमात्रमें बङ्ग होते हैं, वे रस आदि तात्पर्य विषय नहीं होते हैं । तथाऽपि उन्हीं ( रमों ) से गुणीत काम्यवहार है, अर्थात् यहाँ शृङ्गाररस नमरीवर्धनका भङ्ग हुआ है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy