SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः किश्च यो दीपकतुल्ययोगितादिषूपमाघलङ्कारो व्यायः स गुणीभूतव्यङ्गय एव । काव्यस्य दीपकादिमुखेनेव चमत्कारविधायित्वात् । तदुकं ध्वनिकता 'अलङ्कारान्तरस्यापि प्रतीतो यत्र भासते। तत्परत्वं न काव्यस्य नासौ मार्गो ध्वनेर्मतः॥' यत्र च शब्दान्तरादिना गोपनकृतचारुत्वस्य विपर्यासः। पर्यवसन्नत्वासौन्दर्यमिति वाच्यस्य चमत्कारः, सहृदयसंवेदः = सहृदयः ( हृदयालुभिः) संवेवः (संवेदनीयः ) इति असुन्दरं गुणीभूतव्यङ्ग्यम् । ___असुन्दरगुणीभूतव्यङ्मयस्य उदाहरणान्तराणि दर्शयति-किञ्चेति। दीपकतुल्ययोगिताऽऽदिषु-अलङ्कारेषु, २ उपमाद्यलङ्कारो व्यङ्ग्यः = व्यञ्जनया प्रतिपाद्यः, स गुणीभूतव्यङ्ग्य एव । अत्र हेतु प्रदर्थयति-वाच्यस्य - अभिधावृत्तिप्रतिपाद्यस्य अर्यस्य क्वचित् "काव्यस्य" इति पाठान्तरम् । दीपकादिमुखेन एव = दीपकतुल्ययोगितादिद्वारेण एव । अत्र एवपदेन व्यम्योपमादिव्यावृत्तिः । चमत्कारविधायित्वात-चमकास प्रतिपादकत्वात् । अत्राऽर्षे ध्वनिकृत्संवादं प्रदर्शयति-प्रलकारान्तरस्येति । यत्र-यस्मिन् स्थले, अलङ्कारान्तरस्य = प्रदशितेऽलकारे बन्यस्य बलका कारस्य, प्रतीतो अपि - व्यञ्जनया ज्ञाने सत्यपि, काव्यस्य, तत्परत्वं = ब्यङ्ग्याऽ. लङ्कारपरत्वं, न भासते = न प्रतीतं भवति, ध्वनेः = ध्वमिकाव्यस्य; मार्गः विषयः न मतः - न अभिमतः, प्रत्युत गुणीभूतव्यङ्ग्यविषय इति भावः । 'गुणीभूतव्यङ्ग्यप्रकारान्तरं दर्शयितुमुपक्रमते-यत्र चेति। यत्र - यस्मिन् स्थले, शब्दान्तरादिना = अन्यशब्दादिना, गोपनकृतचारुत्वस्य = गोपनेन ( ब्यजना, वृत्त्या जनितेन गहनेन ) यत् चामत्वं ( चमत्कारजनकत्वम् ), तस्य, विपर्यासः - विपर्ययः, सोऽपि गुणोभूतब्यङ्ग्य एव इति पूर्वेणाऽन्वयः ।। कि चेति । दीपक और तुल्ययोगिता आदि अलङ्कारों में जो उपमा अलङ्कार व्यङ्गय है वह गुणीभूतव्यङ्ग्य ही है, व्यङ्ग्य ( मुख्य ध्वनि ) नहीं, क्योंकि दीपक आदि अलङ्कारोंके द्वारा चमत्कारकी प्रतीति होती है। जैसे कि ध्वनिकार ( आनन्द. वर्द्धनाचार्य ) ने कहा है-जहाँपर प्रदर्शित अलङ्कारमें व्यसनासे दूसरे अलङ्कारको प्रतीति होनेपर भी काव्यमें उसमें चारुत्वका तात्पर्य नहीं भासित है यह ध्वनिका मार्य नही है । अर्थात् वह गुणीभूत ध्यङ्ग्यका ही विषय है ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy