SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ चतुर्थः परिच्छेदः 'दीपयन् रोदसीरन्ध्रमेष ज्वलति सर्वतः। प्रतापस्तव राजेन्द्र ! वैरिवंशदवानलः ॥' अत्रान्वयस्य वेणुत्वारोपणरूपो व्यङ्गयः प्रतापस्य दावानलत्वारोपसिद्धयङ्गम् । 'हरस्तु किंचित्परिवृत्तधैर्य:--' (पृ० २८४) इत्यादौ विलोचनन्यापारधुम्बनाभिलाषयोः प्राधान्ये सन्देहः । शेषः । अतो ध्वनित्वं निरस्तमिति भावः । अस्य काक्वाक्षिप्तिगुणीभूतव्यङ्ग्यस्य गूढ-. घ्यङ्गयस्याऽन्तःपातित्वेऽपि काकुरूपवैचित्र्यस्य विशेषत्वात्पार्थक्येन ग्रहणम् । वाच्यसिद्धयङ्ग गुणीभूतव्यङ्गयमुदाहरति-वीपयन्निति । कश्चित्कविः कंचिद्राजान प्रशंसति । हे राजेन्द्र = हे नपश्रेष्ठ !, वैरिवंशदवाऽनलः = वैरिणः (शत्रोः ) बंश: (कुलम् ) एव वंशः ( वेणुः ), तत्र दावाऽनलः ( वनाऽग्निस्वरूपः )। एषः अयं, तवमवतः प्रतापः = तेज, रोदसीरन्ध्र = रोदस्योः ( द्यावापृथिव्योः । रन्ध्रम् (छिद्रम्, अवकाशमित्यर्थः ), दीपयन् = प्रकाणयन्, सर्वतः = समन्तात, ज्वलति = दीप्यते । अनुष्टुब् वृक्तम् ॥ वाच्य सिद्धघनमुपपादयति-प्रति । अत्र = अस्मिन् श्लोके, अन्वयस्य = "सन्ततिर्गोत्रजननकुलान्यभिजनान्वयो। वंशोज्ववायः सन्तानः" इत्यमरात् वंशशब्द.. पाच्यस्य कुलस्य वेणुस्वाऽऽरोपणरूपः = वंशत्वारोपस्वरूपः, व्यङ्गयः = व्यञ्जनावृत्ति, प्रतिपाद्यः अर्यः, प्रतापस्य - राजतेजसः, दावाऽनलत्वाऽरोपसिद्धयङ्गम् = दावाऽनलस्वाऽऽरोपसिद्धः (वनाऽग्नित्यारोपणसिद्धः), वाच्यार्यस्य अङ्गम् (प्रयोजकः),. अतः व्यङ्गयाऽर्यस्य वाच्यसिद्धेरङ्गत्वेन चमत्काराऽतियित्वाऽभावेन वाच्यसिद्धयङ्ग माम गुणीभूतव्यङ्गयमुदाहृतम् । सन्दिग्धप्राधान्य नाम दुणीभूतव्यङ्गयमुदाहरणनिर्देशन उपपादयतिहरस्त्विति । उद्बुद्धमात्रस्थायिभावस्योदाहरणे कुमारसंभवस्थं पद्यमिदं तृतीयपरि-- च्छेदे ( २८४ पृष्ठे ) प्रदर्शितम् । आकालिकवसन्तप्रवृत्ती पार्वती पश्यतो परस्य धैर्य-. वाच्य ( अभिधावृत्ति से प्रतिपाय ) बस्तु "न मथ्नामि” इसके सहभावसे स्थित होनेसे यह गुणीभूतव्यङ्ग्य हुआ। बाच्यसिद्धचा व्यङग्य-दीपयन् । कोई कवि किसी राजाकी प्रशंसा करता है । हे राजेन्द्र ! शत्रुके वंश (कुल) ही जो वंश ( बांस ) उसको जलानेमें बनके अग्निस्वरूप आपका प्रताप आकाश और पृथिवीके मध्यभागको प्रकाशित करता हया चारों ओरसे प्रदीप्त हो रहा है। - यहाँपर वंश (कुल) में वंश ( बांस ) का आरोप व्यङ्ग्य है वह प्रेतापमें दावानरवके आरोपरूप वाच्यार्थकी सिद्धिका अङ्ग है अतः गुणीभूतव्यङ्ग्य हुआ है। - सन्दिग्धप्राधान्य व्यङ्ग्य-"हरस्तु किञ्चित्परिवृत्त.” (पृ. २८४ ) ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy