SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पण तेन वाच्यं सादृश्यं वाक्यार्थान्वयोपपादकतयाङ्गतां नीतम् । . काकाक्षिप्तं यथा'मध्नामि कौरवशतं समरे न कोपा दुःशासनस्य रुधिरं न पिबाम्युरस्तः। संचूर्णयामि गदया न सुयोधनोरू सन्धि करोतु भवतां नृपतिः पणेन ।' ___ अत्र मध्नाम्येवेत्यादिव्यङ्गय वाच्यस्य निषेधस्य सहभावेनैव स्थितम् । उकुर्वता = प्रकाश्यता, तद्गोपनं = रामसादृश्यगृहनम्, अपाकृतं = खण्डितम् । तेन = कारणेन, वास्यं = बाच्यवझटिति प्रतीयमानं, सादृश्यं = वक्तरि रामसदृशस्वं, वाक्याऽर्थाऽन्वयोपपादकतया वाक्याऽयंस्य ( रामसादृश्यप्राप्तिरूपस्य ) अन्वयोपपादक. सया ( सम्बन्धसाधारया ), wङ्गता = गुणीभूतता, नीतं = प्रापितम् । अतो व्यङ्ग्याऽर्थरूपस्य वक्तरि रामसादृश्यस्य गच्याऽर्थाऽतिशायिस्थाऽभावेन गुणीभूतव्यङ्ग्यत्वं प्रतीयत इति भावः। काक्वाक्षिप्तं गुणीभूतव्यङ्ग्यमुदाहरति.-मनामीति। वेणीसंहारनाटके दुर्योधनेन समं युधिष्ठिरस्य सन्धिप्रवृत्ति धृत्वा कुपितस्य भीमसेनस्य सहदेव प्रत्युक्ति. रियम् । समरे = युद्धे, कोपात = क्रोधाद्धेतोः, कोरवशतं = कोरवाणां (दुर्योधनादीनां). शतं, न मध्नामि = पूर्वप्रतिज्ञामनसृत्य न मथिष्यामि, मथिष्याम्येव, एवं परत्राऽपि । "वर्तमान सामीप्ये वर्तमानवद्वा" इति भविष्यदर्थे लट् । दुःशाशनस्य दुर्योधनमध्यमा:मुजस्य, उरस्तः वक्षःस्थलाद, धिरं = रक्तं, न पिबामिन पास्यामि ? स्याम्येव । एवं च गदया कासूनामकाऽऽयुधविशेषेण, सुयोधनोरू = दुर्योधनसक्थिनी, न संचूर्ण. यामि = न संचूर्णयिष्यामि ? संचयिष्याम्येव । भवतां = युष्माकं, नृपतिः = राजा अधिष्ठिरः, पणेन = इन्द्रप्रस्थादिनामपनकग्रहणरूपेण सन्धि - पणबन्धं, करोतु - विदधातु । वसन्ततिलका वृत्तम् ॥ काकुव्यङ्गपविणोति-प्रोति । अत्र अस्मिन् पो मध्नामि एव इत्यादिव्यङ म्यं = व्यञ्जनाप्रतिपाद्य वस्तु, वाच्यस्य % अभिधावृत्तिप्रतिपाचस्य, निषेधस्य - न मनामीति मक्यरूपस्य, सहभावेन = साहित्येन, स्थितं = विद्यमानम, अस्तीति अन्वयमें उपपादक होनेसे वाच्याऽर्थका अङ्ग हो गया है। अतः गुणीभूतमय काव्य हुआ । काक्वाक्षिप्त व्यङ्ग्य जैसे-मध्नामि । वेणीसंहार नाटकमें दुर्योधनके साथ युष्टिष्ठिरकी सन्धिका वृत्तान्त सुनकर सहदेवके प्रति भीमसेनकी उक्ति है । युद्धमें क्रोधसे सैकड़ों कारोंका मथन नहीं करूंगा? दुशासनकी छातीसे रुधिर नहीं पियूगा? गदासे दुर्योधन के ऊरओंको चूर चूर नहीं करूंगा? आपके राजा ( युधिष्ठिर ) इन्द्रप्रस्थ आदि पांच ग्रामोंको लेनेकी शर्तपर सन्धि कर लें। . इस पहमें "ध्नामि एव", इत्यादि व्यङ्ग्य ( व्यञ्जनासे प्रतिपाद्य ) वस्तु
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy