________________
यथा-
चतुर्थः परिच्छेदः
इतरस्य रसादेरङ्गं रसादिव्यङ्गयम् ।
'अयं स रसनोत्कर्षी पीनस्तन विमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥'
३४३
अत्र शृङ्गारः करुणस्याङ्गम् ।
'मानोन्नतां प्रणयिनीमनुनेतुकामस्त्वत् सैन्यसागर रवोद्गतकतापः । हा ! हा ! कथं नु भवतो रिपुराजधानी प्रासादसंततिषु तिष्ठति कामिलोकः ।।'
इतरस्येति । इतरस्य = रसादेर्भावादेर्वा, अगं = रसादिरूपं व्यङ्ग्यं, रसादिव्यङ्ग्यम् ।
=
इतराङ्गमुदाहरति - प्रयमिति । महाभारते भूरिश्रवसः समरपतितं हस्तम - वलोक्य तत्पत्न्या उक्तिरियम् । अयं दृश्यमानः, सः प्रागनुभूतः, रसनोत्कर्षी = रन्तु मेखलोत्कर्षंणशीलः पीनस्वनविमर्दनः = पुष्ट कुच विमर्दकः, नाभ्यूरुजघनस्पर्शी = नाभिस क्षिकटिपुरोभागस्पर्शी, नीवीविस्रंसनः = वसनग्रन्ध्यपसारकः, करः = हस्तः अस्तीति शेषः । अनुष्टुप् । अत्र शृङ्गार रसालम्बनस्य भूरिश्रवसो विच्छेदेन रतेरसाश्रयतया स्मर्यमाणानां शृङ्गाररसाऽङ्गानां शोकोद्दीपकतया करुणाऽनुकूलताऽतः खण्डरसः शृङ्गारः करुणाङ्गम् । करुणविरुद्धोऽपि शृङ्गारः शोकोद्दीपकत्वेनाऽङ्गं भवतीति सप्तमपरिच्छेदे वक्ष्यते । अनुष्टुब् वृत्तम् ।
रसस्य भावाऽङ्ग तथाऽपर मिसराङ्ग व्यङ्ग्यमुदाहरति- मानोन्नतामिति । कस्यचिद्राज्ञ: स्तुतिरियम् । ( हे राजन् ! ) भवतः = तव रिपुराजधानी प्रसाद-- सन्ततिषु = रिपुराजधान्या : ( शत्रु राजधान्याः ), प्रासादसन्ततिषु ( सोधपरम्परासु ) । मानोन्नताम् = उनतमानां प्रणयिनों = प्रियाम्, अनुनेतुकामः = अनुनेतुमिच्छुः । कामिलोकः = कामुक समूहः, त्वत्सैन्यसागररवोद्गत कर्णचापः = तव ( भवतः ) सैन्यसागर: ( सैनिकसमुद्रः ), तस्य रवेण ( शब्देन, कोलाहलेनेति भावः ), उद्गतः
१ उनमें जहाँपर व्यङ्ग्य अर्थ इतर (अन्य ) रस आदिका अड्ग होता है उसे इतराऽङ्ग व्यङ्ग्य कहते हैं। जैसे - महाभारत में समर में भूरिश्रवाके कटे हुए हाथको देखकर उसकी पत्नीकी उक्ति है । मेखलाको खींचने वाला, पुष्ट 'स्तनोंका विमर्दन करनेवाला और नाभि, उरु और जघन (कटिके पूर्वभाग ) का स्पर्श करनेवाला यह हाथ है। आलम्लन ( नायक ) का विच्छेद होनेसे शृङ्गार रस यहांपर इतर (अन्य ) रस करुणका अङ्ग हुआ है, अतः यह इतराऽङ्गव्यङ्ग्य नामक गुणी. भूत व्यङ्ग्यका उदाहरण है ।
दूसरे इतराऽङ्गव्यङ्ग्यका उदाहरण देते हैं। कोई कवि किसी राजाका वर्णन करता है । हे राजन् ! आपके शत्रु राजाकी राजधानीके प्रासादोंमें प्रणयकोप करने