SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे भय गुणीभूतव्वायम् अपरं तु . गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये । अपरं काव्यम् । अनुत्तमत्वं न्यूनतया साम्येन च संभवति । तत्र स्यादितराङ्ग कायाक्षिप्तं च वांच्यसिद्धयङ्गम् ॥ १३ ॥ संदिग्धप्राधान्यं तुल्यप्राधान्यमस्फुटमगूढम् । व्यङ्गयमसुन्दरमेवे मेदास्तस्योंदिता अष्टौ ॥ १४ ॥ ध्वनि निरूप्य गुणीभूतव्यङ्गयं निरूपयति-अपरं स्विति । व्यङ्ये व्यञ्जनया प्रतिपाने अथे, वाच्याव-अभिधाप्रतिपाचात् अर्थात्, अनुत्तमे = अनुस्कृष्टे सति, गुणीभूतव्यङ्ग्यं - गुणीभूतः (अप्रधानीभूतः) व्यङ्ग्यः ( व्यञ्जनाप्रतिपाद्यः अर्थः) यस्मिस्तव, तन्नामधेयम्, अपरम् = अन्यत्, ध्वनिभिन्नं वा काव्यं भवतीत्यर्थः । कारिका विवृणोति-प्रपरमिति । व्यङ्ग्याऽर्थस्य अनुत्तमत्वं च, न्यूनतया बाच्यापेक्षया होनतया, साम्येन चतुल्यत्वेन च संभवति । गुणीभूत व्यङ्ग्यस्य भेदानामग्राह निर्दिशति-तंत्र स्यादिति। तत्र = गुणीभूतव्यङ्ग्ये, इतराऽङ्गम् = इतरस्य ( रसस्य, . भावादेः वा) बङ्गम् ( अवयवः, परिपोषकम् ) इतरानं नाम व्यङ्ग्यम् एकम् । काक्वाक्षिप्तं % काक्वा ( भिन्नकण्ठध्वनिना ) आक्षिप्तम् (कृताक्षेपम् ) व्यङ्ग्यं द्वितीयम् । वाच्य. सिद्धयङ्ग - वाच्यसिद्धः - वाच्याऽर्थस्य सिद्धः (निष्पत्तेः) अङ्गम् (प्रयोजकम् ) माम व्यङ्ग्यं तृतीयम् ॥ १३ ॥ . सन्दिग्धप्राधान्य - सन्दिग्धं (संशयितम् ) धान्यम् (प्रधानभावः ) यस्य पद, तादृशं व्यङ्ग्यं तच्चतुर्थम् । तुल्यप्राधान्य-तुल्यं (समानम्) प्राधान्यं (प्रधानभावः) यस्य तव व्यङ्ग्यं पञ्चमम् । अस्फुटम् - अध्यक्तं, सहृदयैरपि झटिति अप्रतीयमानमिति भाषा, व्यङ्ग्यं षष्ठम । जगढम् - अतिस्फुटं वाच्याऽयं सदशं व्यङ्ग्यं, सप्तमम्, इति - एवं, तस्य = गुणीभूतव्यङ्ग्यस्य, अष्टौ = अष्टसंख्यकाः, भेदः = प्रकारा, उदिताःकषिताः ॥१४॥ गुणीभूत व्यग्य-जहाँपर वाच्य अर्थसे व्यङ्ग्य अर्थ उत्तम नहीं होता है, वहाँ गुणीभूतव्यङ्ग्य नामक द्वितीय श्रेणीका काव्य होता है । वाच्य अर्थसे न्यून होनेसे पा वाच्य अर्थक तुल्य भावसे रहनेसे व्यङग्य अर्थ अनुत्तम होता है। गनीमत व्यग्यके भेद-इतराऽङ्ग व्यङ्ग्य, काक्वाक्षि व्यङ्ग्य, वाच्यसिद्धघन व्यङग्य ॥ १३ ॥ सन्दिग्ध प्राधान्य व्यङ्ग्य, तुल्यप्राधान्य व्यङग्य, अस्फुटव्यङ्ग्य, अगूढव्यङ्ग्य, और असुन्दर व्यङ्ग्य इसप्रकार : गुणीभूत व्यङ्ग्य काव्यके आठ भेद होते हैं ॥ १४॥
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy