________________
चतुर्थः परिच्छेदः
'किंवा' इत्युक्त पक्षदायसूचकस्य वाशब्दस्य, 'असि' इति वर्तमानोपदेशस्य च तत्तद्विषयगञ्जकत्वं सहृदयसंवेद्यम् ।
वर्णरचनयोरुदाहरिष्यते । प्रबन्धे यथा-महाभारते शान्तः। रामायणे करुणः। मालनीमाधव-रत्नावल्यादौ शृङ्गारः। एवमन्यत्र ।
तदेवमेकपश्चाशद्भेदास्तस्य वनेमताः ॥ ११ ॥ इति सोपहासात्प्रासस्य = उपहाससहितस्थ मन्दहासस्य, "कि वा” इति उत्तरपक्षदायसूचकस्य = उत्तापक्षवियोगिनित्वदृढतासूचकस्य वाशब्दस्य, "असि" इति वर्तमानोपदेशस्य = वर्तमानकालद्योतकस्य लटः सिप्रत्ययस्य, ततद्विषयव्यञ्जकरवं = तत्तद्विषयाणां व्यञ्जनया बोधकत्वं, सहृदयसंवेद्य = सहृदयः ( हृदयालुभिः, काव्याऽर्थभावनया परिपक्वाऽन्तःकरणरिति भावः ।।
वर्णरचनयोरिति । वर्णः = माधुर्यादिगुणव्यञ्जकः, रचना = पदविन्यासविशेषः, साऽपि माधुर्यादिव्यजिका, तथा च तयोर्व्यञ्जकत्वम्, उदाहरिष्यते अष्टमपरिच्छेदे नवमपरिच्छेदे च उदाहरणं दास्यते ।
प्रबन्धे-महावाक्ये यथा-महाभारते शान्तः = शान्त रसः, गमायणे करुणः= करुणरसः, मालतीमाधवरत्नादल्यादो शृङ्गार:=शृङ्गाररसः व्यङ्ग्यः । एवम् = इत्यम्, अन्यत्र प्रबन्छ, तत्तद्रसा व्यङ्ग्या ज्ञेया इति भावः ।
ध्वनीन् सङ्कलयति-तदेवमिति । तत् = तस्मात्कारणात, एवम् = उक्तप्रकारेण, तस्य = पूर्वोत्तस्य, ध्वनेः एकपञ्चाशत् = एकाधिका पञ्चाशत, भेदा:=प्रकाराः, मताः = अभिमताः ॥ ११॥
तेषामत्र पोनरुक्त्ये सत्यपि छात्राणां बोधवेशद्यार्थम्, दिग्दर्शनं क्रियते । ध्वनिद्विविधो लक्षणामूलोऽभिधाभूलनेति ।
तत्र लक्षणामूल: ( अविवक्षितवाच्यः) पुनद्विविध:१-अर्थान्तरसंक्रमितवाच्यः ।
२-अत्यन्ततिरस्कृतवाच्यश्चेति । "fक वा" यहांपर "तुम योगिनी ही हो" ऐसा उत्तरपक्षको दृढताका सूचक वा शब्दका और "असि" इस क्रियाग्दसे नमान कालके उपदेशका तत्तद् विषषरूप व्यङ्ग्य अर्थका व्यजकत्व सहृदयजनोंके ज्ञानका विषय है।
वर्ण और रचनाका व्यञ्जकत्व अष्टम और नवम परिच्छेदमें दिखाया जायगा। प्रबन्धमें जैसे महाभारतमें शान्तरस, रामायण में करुण रस और मालतीमाधव और रत्नावली यादिमें शृङ्गार रस व्यङ्गय होकर सहृदयजनोंके ज्ञानका विषय है। इसी तरह अन्य प्रबन्धमें तत्तद्रस व्यङ्गय होते हैं। , इस प्रकार उस ध्वनिके इक्कावन भेद माने गये हैं ॥ ११॥
२२ सा०