SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे 'आदित्योऽयं स्थितो मूढाः ! स्नेहं कुरुत साम्प्रतम् । बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ।। अमुं कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः॥' इति निशि समर्थस्य गोमायोदिवसे परित्यायोऽनभिलषित इति वाक्यसमूहेन द्योत्यते। अत्र स्वतःसंभवी व्यन्जकः। एवमन्येष्वेकादशभेदेपूदाहार्यम् । एवं वाच्यार्थव्यन्जकत्वे उदाहृतम् । लक्ष्यार्थस्य यथा'निःशेषच्युतचन्दनम्-' (पृ० ७५ ) इत्यादि । । प्रादित्योऽयमिति । गृध्रवाक्यमनुसृत्य बालकशवं परित्यज्य गमनतत्परांस्तदा बन्धन्प्रति गोमायोर्वचनमिदम् । हे मूढाः = हे मुर्खाः ! अयम् = एषः, आदित्यः = सूर्यः, स्थितः = अवस्थितः, साम्प्रतम्-अधुना, स्नेह वात्सल्यं, कुरुत-विदधत, अयम्एषः, मुहूर्तः–समयः, बहुविघ्नः भूताचावेशविविधप्रत्यूहः, कदाचन = जातुचित्, जीवेत् अपि = प्रत्युज्जीवनं प्राप्नुयात् अपि, कनकवर्णासं = सुवर्णकान्तिसदृशम, बप्राप्त. यौवनम् = अनासादिततारुण्यम्, अमुम् = अमुत्र गतमिति संभावितं, बालं =शिक्षु गृध्रवाक्यात् = दाक्षाय्यवचनमात्राद, अविशङ्किताः = संशयरहिताः सन्तः, कथं केव प्रकारेण, त्यजध्वं = जहत ॥ ध्यङ्ग्याऽयं विवृणोति-इतीति । इति = एवं, निशि = रात्री, समर्थस्य = मृतबालकमांसभक्षणसमर्थस्य । गोमायोः = शुगालस्य, दिवसे = दिने, परित्यागः = मृतबालपरिहानम्, अनभिलषितः = अनमीष्टः, इति वाक्यसमूहेन = वाक्यकदम्बकेन: द्योत्यत = व्यज्यते । अत्र = अस्मिन्नुदाहरणे, स्वतःसंभवी = स्वतःसंभाव्यमाना; प्रबन्धद्वयाऽर्थो व्यञ्जकः । एवं वाच्याऽर्थव्यञ्जकत्वे उदाहृतम् । "दृष्टि हे प्रतिवेशिनि" इत्यादिकमिति भावः । लक्ष्याऽर्थस्य व्यञ्जकत्वं यथा-"नि:शेषच्युतचन्दनम्" इत्यादि । अत्र स्नातुं गताऽसीत्यत्र न स्नातु गताऽसीति विपरीतलक्षणया लक्ष्याऽपस्वरूपेण स्वतःसंभत्रिवस्तुना तदन्तिकमेव रन्तुगताऽसीति वस्तुवनिरधमपदव्यमयः । गृध्रके वाक्यका अनुसरण कर बालकके शवको छोड़कर जानेके लिए तत्पर मृत बालकके बन्धुओंके प्रति स्यारका यह वचन है। हे मूर्यो ! अभी सूर्य विद्यमान है। अभी कुछ स्नेह तो करो। अनेक विघ्नोंवाला यह समय है, यह बालक कदाचित् जी भी जाय । सोनेके समान वर्णवाला और यौवनको अप्राप्त इस बालकको मूर्ख होकर तुमलोग गृध्रके वचनसे कुछ भी शङ्का नहीं मानकर कैसे छोड़ोंगे? ॥ रातमें शव खाने में समर्थ शृगालको दिन में बालकका परित्या अभीष्ट नहीं है यह बात पूर्णोक्त वाक्पसमूहसे व्यङ्ग्य है। यहाँपर दोनों उक्तियों में व्ययक वाक्या • स्वतःसंभवी है । इसीप्रकार अन्य ग्यारह भेदोंमें भी उदाहरण देने चाहिए ।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy