________________
चतुर्थः परिच्छेदः
प्रबन्धेऽपि मतो धीरे रथशक्त्युद्भवो ध्वनिः ॥ १० ॥ 'अनन्तरोकद्वादशभेदोऽर्थशक्युत्थः । यथा
प्रबन्धे = महावाक्ये | महाभारते गृध्रगोमायुसंवादे -
'अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसंकुले | काल बहले घोरे सर्वप्राणिभयङ्करे ।
न चेह जीवितः कश्चित्कालधर्ममुपागतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां मतिरीदृशी ।'
..
३३१
इति दिवा प्रभवतो गृध्रस्य श्मशाने मृतं बालमुपादाय तिष्ठतां तंपरित्यज्य गमनमिष्टम् ।
प्रबन्धेऽपि । अर्थशक्त्युद्भवो ध्वनिः = अनन्तरोक्त द्वादशभेदः, प्रबन्धेऽपि = महावाक्येऽपि, बीरेः = विद्वद्भिः, मतः = संमतः ॥ १० ॥
उदाहरति - प्रलं स्थित्वेति । महाभारते शान्तिपवंस्थं श्लोकद्वयम् । श्मशाने मृत बालकमत्यजतस्तद् बन्धुप्रति गृध्रवाक्यम् । गृध्रगोमायुस कुले = गृधः ( दाक्षाय्यैः ) बोमायुभि: ( शृगालः) च सकुले ( व्याप्ते ), कङ्काल बहले = कङ्कालः ( शरीराऽ. स्थिभि: ) बहले ( प्रचुरे ), सर्वप्राणिभयङ्करे = सकलजन्तु भीत्युत्पादके, अत एवं घोरे = भयङ्करे, अस्मिन् श्मशाने = पितृवने स्थित्वा = अवस्थाय, अलं - पर्याप्तम्, बत्राऽवस्थितिनं कार्या इति भावः ॥
कालधर्मम् = मृत्युधर्मम्, उपागतः = संप्राप्तः, प्रियो वा अभीष्टो वा द्वेष्यों बा = शत्रुर्वा, कचित् = कोऽपि, इह = अस्मिन् श्मशाने, न जीवितः - जीवनं न प्राप्तः प्राणिनां = जन्तूनाम्, ईदशी - एतादृशी, गतिः = स्थितिः । बालकजीवनाशयाऽत्राऽवस्थानं व्यर्थमिति भावः । व्यङ्ग्याऽयं विवृणोति - इतीति । श्मशाने पितृवने, मृतम् - उपरतं, बालं = शिशुम्, उपादाय = गृहीत्वा तिष्ठतां = स्थिति कुर्वतां जनाना, दिवसे - दिन एव, त = बालं, परित्यज्य = विहाय, गमनं = गतिः, इष्टम् = उचितम् इति = एवं दिवा = दिने, शक्तस्य - समर्थस्य, गृध्रस्य = दाक्षाय्यस्य वचनम् । वक्तुगृ प्रस्य मृतं चालं त्यक्त्वा तद्वन्धूनां गमनमिष्टमिति प्रयोजनमिति भावः ।
अर्थशक्तिमूलक ध्वनि प्रबन्ध अर्थात् महावाक्य में भी होता है ।। १० ।।
जैसे महाभारत में गृध्र ( गीध ) और स्थारके संवादमें मरे हुए बालकको लेकर श्मशान में रहे हुए उसके बान्धवोंको कोई गीध कहता है ।
गृधों और स्यारोंसे व्याप्त, अस्थिपञ्जरोंसे भरे हुए, सब प्राणियोंको भयङ्कर ऐसे श्मशान ( मरघट ) में रहना नहीं चाहिए । कालधर्मको प्राप्त प्रिय हो वा अप्रिय यहां पर कोई भी नहीं बचा, प्राणियों की गति ऐसी ही होती है ।।
दिन में शव खाने में समर्थं ग्रधका मत बालकके बन्धुओंके प्रति यह वचन है ।