SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे अत्र लावण्यादीनां ताहगनुभषेकगाचरताव्यञ्जकानां तदादिशब्दानामेव प्राधान्यम्, अन्येषां तु तदुपकारित्वमेवेति सन्मूलक एवं ध्वनिव्यपदेशः। वदुळं ध्वनिकृता 'एकावयवसंस्थेन भूषणेनेव कामिनी । पदद्योत्येन सुकवेर्ध्वनिना भाति भारती ॥' एवं भावादिष्वप्यूह्यम् । बस्मिन् समये, प्रियाया असन्निधानसमय इति भावः, महान् = दुवेहः ज्वर:-सन्तापकः बस्तीति शेषः । अनुष्टुब् वृत्तम् । अस्मिन् श्लोके ध्वनेर्वाक्यगतत्वं निरस्य पदगतत्वं स्थापयति-पत्रेति। पत्र - अस्मिन् श्लोके, लावण्यादीनां = लावण्यप्रभुतीनां पदानां, तादृगनुभवकगोचरता. व्यञ्जकानां = तादक (तादृशः) यः अनुभवः (असाधारणत्वरूपेण ज्ञानम् ) तस्य एकगोचरता (एकमात्रग्राह्यता ) तव्यञ्जकानां (व्यक्तिकारकाणाम ) तदादिशब्दानाम् एव प्राधान्यं = प्रधानता, अन्येषां-लावण्यादिशब्दानां, तदुपकारित्वम् एव % तेषाम् ( तदादिशब्दानाम् ) उपकारित्वम् एव (व्यञ्जने सहकात्विम् एव ), इति = पस्माकारणाद, तन्मूल एव = तदादिपदमूल एव, ध्वनिव्यपदेशः = ध्वनिव्यवहार, म तु.वाक्यमूलः, "प्रधाने हि व्यपदेशा भवन्ती"ति न्यायादिति भावः । अत्राऽर्थे ध्वनिकारपचं प्रमाणत्वेनोपन्यस्यति-एकावयवसंस्थेनेति । एकाऽ. यवसंस्थेन = कण्ठा काङ्गस्थितेन, भूषणेन = वेयकाधलङ्कारेण, कामिनी इव = कलना इव, पदद्योत्येन = पदमात्रप्रकाश्येन, ध्वनिना, सुकवेः = सत्कवेः, भारती = वाक्यं, भाति = शोभते। एवम् = इत्यमेव, भावादिषु = भावरसाभासादिष, ऊह्यं = कल्पनीयम् । बभी (वियोगकालमें ) तो अत्यन्त संतापकारक हो गये हैं । यहाँ लावण्य आदिक बनुभवके एकमात्र ग्राह्यताके व्यञ्जक 'तद्' आदि शब्दोंकी ही प्रधानता है, अन्य गन्द उनके उपकारकमात्र हैं । तद् आदि पद ही ध्वनिके कारण हैं न कि वाक्य । जैसे कि ध्वनिकार (आनन्दवर्द्धनाचार्य ) ने कहा है जैसे एक अवयवमें पहने गये भूषण सुन्दरी शोभित होती है वैसे ही सुकविके एक पदसे प्रकाश्य ध्वनिसे गक्य गोमिन होता है। इसी तरह भाव आदिमें भी पदगत ध्वनिका उदाहरण समझें। पबगत शवशक्तिमूल वस्तुध्वनि उ०-उपपतिको देखकर कोई कामिनी बहती है।
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy