________________
चतुर्थः परिच्छेदः
वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः । तत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा
'धन्यः स एव तरुणो नयने तस्यैव, नयने च।
युवजनमोहनविद्या भवितेयं यस्य संमुखे सुमुखी ॥' अत्र द्वितीयनयनशब्दो भाग्यवत्तादिगुणविशिष्टनयनपरः । अर्थक्ति मूलो द्वादविधः । उभ्यशक्ति मूल एकविधः । .
इत्थं च संलक्ष्यक्रमव्यङग्यो ध्वनिः = समष्ट्या पञ्चदविधः । असंलक्ष्यक्रमव्यङ्ग्य एकविधः । इत्थमभिधामलध्वनिः षोडशविधः। लक्षणामूलध्वनिद्विविधः । इत्यं च संहत्य अष्टादशधा वान ।।
भेदान्तरं प्रदर्शयितुमुपक्रमते- एष चेति । एषु = अष्टादशप्रकारेषु ध्वनिषु ।
वाक्य इति । शब्दाऽर्थशक्न्युत्थः = उभयशक्तिमूलध्वनिः, वाक्ये-पदसमूहे एव भवति, न पद इति भावः । तस्योदाहरणं "हिममुक्तचन्द्ररुधिर" इति पूर्वोदाहृतपद्यम् । बदन्ये तद्भिन्नाः सप्तदशप्रकारा व नयस्तु पदवाक्ययोः= पदे वाक्ये च, भवन्तीति शेषः ।
तत्राऽर्थान्तरसमितगच्यध्वनि पदगतमुदाहरति-- धन्यः स एवेति । परमरमणीयां रमणीं दृष्ट्वा कस्य चिक्तिरियम् । स एव, तरुणः= युवा, धन्यः = पुण्यवान्, तस्य एव = तरुणस्य एव, नयने = नेत्रे, नयने च= सफले नेत्रे। इयम् एषा, युवजनमोहनविद्या = तरुणजनवशीकरण विद्यारूपा, सुमुखी = सुन्दरी, यस्य = तरुणस्य, संमुखे = अभिमुखे, भविता = भविष्यति । आर्या वृत्तम् ॥
विवृणोति-अति । अत्र-अस्मिन् पधे, आदिपदेन सफलस्वादेरुपस्थितिः । बत्र ध्वनेरेकमात्रनयनपदगतत्वात्पदगतत्वम् । नेत्ररूपस्य वाच्याऽर्थस्य भाग्यवत्तादिगुणविशिष्टनेत्ररूपाऽर्थे संक्रमणादस्य अर्थान्तरसंक्रमितवाच्यध्वनित्वम् ।
विवक्षिताऽन्यपरवाच्य के असंलक्ष्यक्रम व्यङ्ग्य और सलक्ष्यक्रमव्यङ्ग्य इसप्रकार दो भेद होते हैं । असंलक्ष्यक्रमव्यङ्ग्य (रस भाव आदि) का एक भेद होता है । संलक्ष्यकमव्यङ्ग्य के शब्दशक्तिमूल, अर्थशक्तिमूल, और उभयशक्तिमूल इसप्रकार पन्द्रह भेद होते हैं, इसप्रकार ध्वनिके अठारह भेद हो जाते हैं। इनमें उभयक्तिमूल (शब्दाऽयं. तिमूल ध्वनि केवल वाक्य में होता है और उससे भिन्न ध्वनि पद तथा वाक्य दोनों में होते हैं। उनमें पदगत अर्थान्तरसंक्रमित ध्वनि--वही युवा पुरुप धन्य है उसीके नेत्र नेत्र हैं, जिसके संमुख युवकोंकी वशीकरण विद्यारूपा यह सुन्दरी होगी। इसमें दूसरा "नयन" शब्द भाग्यवत्व आदि गुणोंसे युक्त नयनरूप अर्थमें संक्रान्त होनेसे परमत वर्षान्तरसंक्रमितवाच्य ध्वनि है।
२१ सा०