________________
चतुर्थः परिच्छेदः
३०९
स्वतः सम्भवी = औचित्याद् बहिरपि सम्भाव्यमानः प्रौढोकपा सिद्ध:, न त्वौचित्येन ।
तत्र क्रमेण यथा
'दृष्टि हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे दास्यसिं
प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति । एकाकिन्यपि यामि सत्वरमितः स्रोतस्तमालाकुलं नीरन्धास्तनुनालिखन्तु जरठच्छेदा नलग्रन्थयः ॥'
( ७ ) कविप्रौढोक्तिसिद्धेन अलङ्कारेण वस्तुध्वनिः । (८) कविप्रोढोक्तिसिद्धेन अलङ्कारेण अलङ्कारध्वनिः । ( ९ ) कविनिबद्ध वक्तृप्रौढोक्तिसिद्धेन वस्तुना वस्तुध्वनिः । (१०) कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन वस्तुना अलङ्कारध्वनिः । (११) कविनिबद्धवक्तृप्रोढोक्तिसिद्धेन अलङ्कारेण वस्तुध्वनिः । (१२) कविनिबद्ध वक्तृ प्रौढोक्तिसिद्धेन अलङ्कारेण अलङ्कारणानिः ।
कारिकास्थं "स्वतसंभवी” तिपदं विवृणोति औचित्यात् - उचितत्वात् याथार्थ्यादितिभावः, बहिरपि = तादृशशब्दाऽतिरिक्तस्थानेऽपि, संभाव्यमानः-- संभावनाविषयीक्रियमाणः । न तु औचित्येन = याथार्थ्येन ।
=
=
स्वतः संभविवस्तुना वस्तुवनिमुदाहरति दृष्टिमिति । काचित्स्वैरिणी निकट, गृहवासिनीं प्रति कथयति । हे प्रतिवेशिति हे निकटगृहवासिनि !, इह = अत्र अस्मद्गृहेऽपि = मद्भवनेऽपि, क्षण = कंचित्कालं, दृष्टि नेत्रं दास्यसि = वितरिष्यसि दृष्टिदानस्य प्रयोजनं प्रतिपादयति- प्रायेणेति । अस्य - निकटस्थितस्य, सिसो:: - बालकस्य, मत्पुत्रस्येति भावः । पिता जनकः, मत्पतिरिति भावः । प्रायेण - बहुधा ; विरसा : नीरसाः, कौपीः = कूपप्रदाः, अपः - जलं, न पास्यति = नो धास्यति । इतः = अस्मात्कारणात्, एकाकिनी अपि = एकाऽपि, सहायरहिताऽपीति भाव: : सत्वरं = शीघ्रं, तमालाऽऽकुलं - तापिच्छवृक्षावृतं स्रोतः = जलाशयं, स्वतोऽम्बुसरण - स्थानमिति भावः । यामि गच्छामि । ततश्च नीरन्ध्राः = निरन्तराः, धना इंडि भावः । जरठच्छेदाः = कठोरच्छिन्नभागाः नळग्रन्थयः = नलतृणपर्वाणि, नु
=
=
१ स्वतः संभवि वस्तुसे वस्तुध्वनि उ०—कोई कुलटा स्त्री अपनी पड़ोसिन - मैं कहती है - हे पड़ोसिन ! यहाँ हमारे घरमें भी कुछ समय दृष्टि दे दो। इस बच्चे के बाबूजी (हमारे पति ) बहुत ही अस्वादु कुएके जलको नहीं पीयेंगे। इसलिए अकेली ही मैं जल्दी ही तापिच्छों से ढके हुए सोतपर जा रही हूँ, घनी पुरानी नलों की गांठें भले ही शरीरको विदीर्ण करें। यहांपर स्वतः संभत्री वस्तुसे इसको कहनेवाली के