________________
चतर्थः परिच्छेदः
३०३
तत्रायो रसभावादिरेक एवात्र गण्यते ।।
एकोऽपि भेदोऽनन्तत्वात् संख्येयस्तस्य नैव यत् ॥ ५॥
उक्तस्वरूपो भावादिरसंलक्ष्यक्रमव्यङ्गयः । अत्र व्यङ्गथप्रतीतेर्विभावादिप्रतीतिकारणत्वात् क्रमोऽवश्यमस्ति किन्तूत्पलपत्त्रशलव्यतिभेदवल्लाघवान संलक्ष्यते । एषु रसादिषु एकस्यापि च भेदस्यानन्तत्वात्संख्यातुम
अलक्ष्यक्रमव्यङ्गयध्वनि निरूपयति-तत्रेति। तत्र = असंलक्ष्यक्रमसंलक्ष्य क्रमव्यङ्गधयोर्मध्ये, अत्र = अलङ्कारशास्त्रे, आद्यः-प्रथमः, असंलक्ष्यक्रमव्यङ्गयो ध्वनिः रसभावादिः, आदिपदेन रसाभासभावाभाससन्धिशबलतानां ग्रहणम् । एक एव = एक प्रकार एव, गण्यते = संख्यायते । रसभावादीनामेकमात्रग्रहणे हेतुमाह-यत = यस्माकारणाव, तस्य = रसभावादेः, एकोऽपि भेदः = शृङ्गाररसस्य संभोगशृङ्गाररूपः एकोऽपि प्रकारः, अनन्तत्वात् = चुम्बनाउनुभावभेदानामसंख्ययात् संख्येयः - परिगणनीयः, नैव ॥५॥
विवृणोति-उक्तस्वरूप इति । अलक्ष्यक्रमत्वमुपपादयति-पत्रेति । अत्र मसंलक्ष्यकमव्यङ्गय, व्यङ्गयप्रतीतेः = व्यङ्गयाना ( रसामावादीनाम् ) प्रतीते. (मानस्य ), विभावादिप्रतीतिकारणत्वाद =विभावादीनां (विभावाऽनुभावव्यभिचारिभावानाम् ) प्रतीतिः (ज्ञानम् ) एव कारण ( हेतुः ) यस्याः सा, तस्या भावः तस्मात् । क्रमः पौर्वापर्यम्, कारणस्य (विभावस्य ) पूर्ववर्तिता, कार्यस्य (अनुमावस्य) परवर्तिता इति भावः, अवश्यमस्ति, किन्तु-उत्पलपत्त्रशतव्यतिभेदवत् = उत्पलाना (कमलानाम् ) पत्त्राणां (दलानाम् ) यत् शतं (बहुसंख्या ), तस्य व्यतिभेदवत्युगपद्विदारणवत्, लाघवाद = अतिशीघ्रत्वाद, न संलक्ष्यते = नो ज्ञायते । यया सूच्या उत्पल बहुपत्त्राणां भेदने क्रमोऽवश्यमस्ति पर क्षिप्रताऽतिशयात् यथा तेषां पौर्वापर्य न शायते तथैव असंलक्ष्यक्रमव्यङ्गयोऽपि क्षिप्रतातिशयात् क्रमो न ज्ञायत इति भावः ।।
असंलक्ष्यक्रमव्यङ्ग्यध्वनेरेकत्वं प्रतिपादयति । एग्विति । एषु च रसादिषु -
इसप्रकार असंलक्ष्य क्रम व्यङ्गयका एक ही भेद है क्योंकि एकका भेद भी अनन्त होनेसे वे सब नहीं गिने जा सकते हैं ॥ ५॥ ..
पूर्वोक्त स्वरूपवाला भाव आदि असंलक्ष्यक्रम व्यङ्गय है। यहाँपर व्यङ्गप प्रतीतिरूप कार्यका बिभाव आदिका प्रतीतिरूपकारण होनेसे क्रम अवश्य है किन्तु कमलके सैकड़ों पत्तोंको सुईसे छेद करें तो उनमें क्रमके रहनेपर भी शीघ्रताके कारण जैसे क्रम ( पौर्वापर्य ) नहीं जाना जाता है वैसे ही यहांपर शीघ्रताके कारण क्रमका ज्ञान नहीं होता है। इन रस आदियोंमें एक भेदका भी अन्त न होनेसे नहीं गिने जा सकनेसे असंलक्ष्यकम व्यङ्ग ध्वनि नामके काव्यका एक ही भेद माना गया